________________ 168] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाचरित्रे वृत्तिः-चतुर्भिः-चतुःसंख्याकैः / न:-अस्माकम् / पदैः-चरणैः / तस्य-दिगन्तम / क्रमणे-अतिक्रमणे / दिशाम्-आशानाम् / दिशानामिति यावत् / सः-प्रसिद्धतया कश्चन / अंश:एकदेशः / अपि-सम्भावनायाम् / न-नहि / अस्तु-भवतु / यत्र-यस्मिन्नशे, यस्मिन्प्रान्ते वा। सङ्गतिः-सङ्गमः, प्राप्तिरिति यावत् , अस्माकमितिशेषः / न-नहि / भवेदिति शेषः / इति-इतिमनसि निधाय / दिश:-अतिक्रान्ताया दिशायाः सकाशाद / पराङमुखीभूय-विमुखीभूय,परावृत्येति यावत् / अपराम्-अतिक्रान्तदिग्भिन्नाम् ,अन्यामिति यावत् / व्रजन्तः गच्छन्तः। हयाः-चक्रिसम्बन्धिनोऽधा। अभिससञ्जिरे-अभिव्यापुः // 26 // दिवाकराश्वीयजिगीषयोद्गते-हयैश्चतुर्दिग्विजयैर्नृपाश्रयः / त्रपा हरीणामिति नमिताननैः, प्रपद्यते वारुणदिगवेईयैः // 27 // अन्वयः-दिवाकराश्वीयजिगीषया, उद्गतः, चतुर्दिग्विजयैः, नृपाश्रयः, हयः, (कृत्वा) हरीणाम् , त्रपा, इति, नमिताननैः, रवेः, हयः, वारुणदिक, प्रपद्यते // 27 // वृत्तिः-दिवाकराश्वीयजिगीषया-दिवा दिनं करोतीति दिवाकरः प्रभाकरः सूर्य इति यावत्, तस्य अश्वास्तुरङ्गमाः दिवाकराश्वास्तेषामियम् दिवाकराश्वीया, सा चासौ जिगीषा जेतुमिच्छादिवाकराश्वीयजिगीषा तया तथा, सूर्यसम्बन्धिनोऽश्वान जेतुमिच्छयेति यावत् / उद्गतैः-उत् ऊर्व गताः प्राप्ता उद्गतास्तैस्तथा / उपर्युत्पतितैरिति यावत् / चतुर्दिग्विजय:-चतसृषु दिक्षु दिशासु विजयो जयो यैस्ते चतुदिग्विजयास्तैस्तथा / नृपाश्रयैः-नन् जनान् पाति रक्षतीति नृपो राजा, भगवान शान्तिनाथ इति यावत् स आश्रयः शरणं येषान्ते नृपाश्रयास्तैस्तथा / हया-अश्वैः / कृत्वेतिशेषः / हरीणाम्-अश्वानाम्. सूर्यसम्बन्धिनामित्यर्थः। त्रपा-लज्जा / समजनीतिशेषः / इतिअस्माद्धेतोः / ननितान:-नम्रितम्-आनतीकृतम् आननं मुखम् यैस्ते ननिताननास्तैस्तथा / व्यानम्रीकृतवदनैरिति यावत् / रवेः-सूर्य्यस्य / हयैः-अश्वैः / वारुणदिक-वरुणस्य यादसांपतेः प्रचेतसइति यावत् इयम् वारुणी, सा चासौ दिक् दिशा वारुणदिक् पश्चिम दिशेत्यर्थः / प्रपद्यते-प्राप्यते / / 27 // गतं त्रपापात्रतया दिगन्तरे, महोदयं नः समवेक्ष्य पाक्षिकैः / दिनेश्वराश्वैरिति चक्रिसप्तिभि-य॑वर्ति तैरर्धनभाकृतकमैः // 28 // अन्वयः-पाक्षिकः, दिनेश्वराश्वः, ना, महादयम् , समवेश्य, त्रपापात्रतया, दिगन्धरे, गतम् , इति, अर्धनभाकृतकमः, ते:, चक्रिसप्तभिः, न्यवर्ति / / 28 / /