________________ -आचार्य विजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां तृतीय सर्गः [167 अक्रामि-आक्रान्तम् / (च) त्रिभिः-त्रित्वसंख्याविशिष्टैश्चरणैरित्यर्थः / धरा-पृथिवी / (अक्रामिआक्रान्ता) इतीव-इत्थमिव चतुष्पदीफलम-चतुर्णा पदानां चरणानां समाहारश्चतुष्पदी / तस्याः फलम् प्रयोजनम् चतुष्पदीफलम् / बभूव-जातम् / हरीणाम्-अश्वानाम्, अस्माकमिति यावत् / चतुष्पदैः-चत्वारि च तानि पदानि चरणानि चतुष्पदानि तैस्तथा / करणैः। ततः-चरणद्वयभाजो विष्णोः सकाशात् / अधिका-अतिरिक्ता, वैलक्षण्यविशिष्टेति यावत् / गति:-गतिक्रिया / उचितायुक्ता // 25 // ( पाठान्तरम् ) हरेर्यदक्रामि पदैककेन खं, त्रिभिर्धरेत्येवमभूत् त्रिविक्रमः / ततो हरीणामपि रोदसीक्रमा-चतुष्कमत्वं चतुरब्धिलङ्घनात् // 25 // अन्वयः- यत् , हरेः, एककेन, पदा, स्वम् , अनामि, त्रिभिः, धरा, इत्येवम् , (सः) त्रिविक्रमः, अभूत् , ततः, हरीणाम् , अपि, रोदसीक्रमात् , चतुरब्धिलधनात्, चतुष्क्रमत्वम् / (उचितम्) // 25 // वृत्तिः-यत्-यस्मात् / हरेः-विष्णोर्वामनावतारमापन्नस्य / एककेन-एकाकिना, एकेन वा। पदा-चरणेन / खम्-आकाशम् / अक्रामि-आक्रान्तम् / त्रिभिः-त्रित्वसंख्या विशिष्टैः चरणैरिति यावत् / धरा-पृथिवी / (अक्रामि-आक्रान्ता) इत्येवम्-एवंविधकारणात् / सः-हरिविष्णुः / त्रिविक्रमः-त्रयः विक्रमाः स्वर्गमर्त्यपातालात्मकत्रिभुवनव्यापनरूप पराक्रमा यस्य स तथा / अभूत्अभवत् , समजायतेति यावत् / ततः-तस्माद्धेतोः / नामसाम्यादितियावत् / हरीणाम्-अश्वानामस्माकम् / अपि-सम्भावनायाम् / रोदसीक्रमात्-रोदस्योर्यावापृथिव्योः क्रमः क्रमणमतिक्रमणमिति यावत् रोदसीक्रमस्तस्मात्तथा / (च-पुनः) चतुरब्धिलङ्घनात-आपो जलानि धीयन्त एष्वित्यव्धयः समद्राः / चत्वारश्च तेऽधयः श्चतरब्धयस्तेषां लडनम अतिक्रमणः उतरपिसाप तरमाना। अथवा रोदसीक्रमणा व्यवहितोत्तरकालावच्छेदेन चतुःसमुद्रोलङ्घनादिति यावत् / चतुष्क्रमत्वम्चत्वारः क्रमाश्चरणा यस्य स चतुष्क्रमस्तस्य भावश्चतुष्क्रमत्वम् , चरणचतुष्टयवत्वमिति यावत् / उचितम्-युक्तम सफलमिति यावत् / / 25 / / दिशां न सोंऽशोऽस्तु न यत्र सङ्गतिः,पदैश्चतुर्भिः क्रमणेऽपि तस्य नः / पराङ्मुखीभूय दिशोऽपरां दिश-मिति व्रजन्तोऽभिससञ्जिरे हयाः // 26 // अन्वयः-चतुर्भिः, नः, पदैः, तस्य, क्रमणे, दिशाम् , सः, अंशः, अपि, न, अस्तु, यत्र, (नः,) सङ्गतिः, न, इति, दिशः, पराङ्मुखीभूय, अपराम् , दिशम , व्रजन्तः, हयाः, अभिससञ्जिरे, // 26 //