________________ 166 ] श्रीजननैषधीयमहाकाव्ये श्रीवान्तिनाथचरित्रेवृत्तिः-अस्य-भगवतः शान्तिनाथस्य / हिमाद्रिरूपे-हिमाद्रिर्हिमाचलो रूपं स्वरूपं यस्य स हिमाद्रिरूपस्तस्मिंस्तथा / यशोभरे-यशसां कीर्तिनां भरोऽतिशयो यशोभरस्तस्मिंस्तथा / स्थिरेदृढे / सतीतिशेषः / अर्कजायाः-यमुनायाः / जलम्-सलिलम् / किम्-कथम् / समलम्-मालिन्यविशिष्टम् मलीमसमिति यावत् / भवेत- स्यात् / इतीव-इत्थमिव / निजवेगदर्पित:-निज आत्मीयश्चासौ वेगो रयो निजवेगस्तेन दर्पिता दलिता निजवेगदर्पितास्तैस्तथा / तदङ्गजैः-हिमाद्रिशरीरसमुत्पन्नैः / वाह:-प्रवाहैः / गाङ्गपदात्-गङ्गाया मन्दाकिन्या इदम् गाङ्गम् गङ्गाजलमित्यर्थस्तस्य पदम मिषम् गाङ्गपदम् तस्मात्तथा / यद्वा गाङ्गमित्याकारकं पदम् स्याद्यन्तम् गाङ्गपदम् तस्मात्तथा / तत्-यमुनाजलम् / आश्रितम्-गृहीतम् // 23 // यशःस्वरूपैस्तुरगैर्दिशां गणे, प्रसृत्वरैः श्वेतनरैः पुरः खुरैः / स्वगातृसंस्थानधिया सुदुर्धरैः, पयोधिरोधक्षममुद्धतं रजः // 24 // अन्वयः—यशस्वरूपः, तुरगैः, दिशाम्, गणे, प्रसृत्वरैः, श्वेततरः, सुदुर्धरैः, पुरः खुरः, स्वगातृसंस्थानधिया, पयोधिरोधक्षमम् , रजः, उद्धतम् // 24 // वृत्तिः-यशास्वरूपैः-दिगन्तव्यापितया कीर्तिरूपैः / तुरगैः-अश्वैः / दिशाम्-आशानाम् / पूर्वदक्षिणपश्चिमादिहरितामिति यावत् / गणे-समूहे / सर्वासु दिक्ष्विति भावः / प्रसृत्वरैःप्रसरणशीलैः / श्वेततरैः-अतितरांशुक्लैः / सुदुर्धरी:-अत्यन्तदुराकान्तैः। अनभिभवनीयैरिति यावत् / पुरः खुरैः-अप्रशफैः / स्वगातृसंस्थानधिया-गायन्तीति गातारः, स्वस्य स्वकीयस्य यशस इति यावद् गातारः, स्वगातारस्तेषां संस्थानम् निवासः स्वगातृसंस्थानम् तद्भवत्वित्याकारिका धीर्बुद्धिः स्वगातृसंस्थानधीस्तया तथा / पयोधिरोधक्षमम्-पयांसि जलानि धीयन्तेऽस्मिन्निति पयोधिः समुद्रस्तस्य रोधोऽवरोधः पयोधिरोधस्तत्र क्षमं समर्थम् पयोधिरोधक्षमम् / रजः-धूलिः / उद्धृतम्उत्थापितम् // 24 // हरेर्यदकामि पदेककेन खं, त्रिभिर्धरेत्येव चतुष्पदीफलम् / बभूव पूर्व द्विपदस्ततोऽधिका, गतिहरीणामुचिता चतुष्पदैः // 25 // अन्वयः यत् , पूर्वम् , विपदः, हरेः, एककेन, पदा, खम् , त्रिभिः, धरा, अक्रामि; इतीव, चतुष्पदीफलम् , बभूव, हरीणाम् , चतुष्पदैः, ततः, अधिका, गतिः, उचिता // 25 // वृत्तिः-यत्-यस्माद्धेतोः / पूर्वम्-प्राचीनकाले, बलिनिग्रहार्थं वामनावतार काले इति यावत् / द्विपदः-चरणद्वयविशिष्टस्य / हरेः-विष्णोः / एककेन-एकाकिना / पदा-चरणेन / खम्-आकाशम्