________________ -श्राचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां तृतीयः सर्गः [165 कियत्पदम्-भवेत् अपितु द्वित्राण्येव पदानि भविष्यन्तीति भावः / इति-अस्माद्धेतोः / मृगाङ्कतारागणतारकैतवात-मृगो हरिणोऽङ्के क्रोडे यस्य स मृगाकश्चन्द्रमाः, मृगाङ्कश्चन्द्रश्च तारागणस्तारकासमूहश्च तारः शुद्धमौक्तिकश्चेत्येषामितरेत्तरयोगद्वन्द्वसमासः, मृगातारागणतारास्तेषा कैतवं व्याजः, मृगातारागणतारकैतवम् तस्मात्तथा / नभसि-आकाशे / असंख्येयम्-संख्यातुं गणयितुम् इयत्ततया परिच्छेतुम् इति यावत् / भयोग्यम् अगण्य मित्यर्थः / अपि-सम्भावनायाम् / इह-अस्मिँल्लोके / संख्यजम्-संचक्षतेऽत्रेति संख्यम् युद्धम् , “चलो वाचि” 4|4|4 / इत्यनेन 'ख्या' देशः तस्माज्जातं संख्यजम् , युद्धप्रयोज्यमिति यावत् / अस्य-भगवतः शान्तिनाथस्य / यशः-कीर्तिः। पिण्डितम्-पिण्डं शरीरं सञ्जातमस्येति पिण्डितम् , “तदस्य सञ्जातं तारकादिभ्य इतः” 7 / 1 / 138 / / इत्यनेन 'इतः' प्रत्ययः, मूर्तिमदिति यावत् / जातमिति शेषः // 21 // पवित्रता श्वेतपयोजमूर्तिभिर्धरा तदम्भोधिपि स्थलायताम् / अखण्डडिण्डीरभरच्छलाद् यशः, समूढमित्यूढधियेव भूभुजः // 22 // अन्वयः-श्वेतपयोजमूर्तिभिः, धरा, पवित्रिता, तत् , अम्भोधिः, अपि, स्थलायताम् , इत्युदधिया, इव, भूभुजः, यशः, अखण्डडिण्डीरभरच्छलात् , समूढम् // 22 // वृत्तिः-श्वेतपयोजमूर्तिभिः-पयसि जले जातान्युत्पन्नानि पयोजानि कमलानि श्वेतानि शुक्लवर्णानि च तानि पयोजानि श्वेतपयोजानि तेषां मूर्तिः शरीरमिव मूर्तिर्येषामिति श्वेतपयोजमूर्तीनि तैस्तथा / यशोभिरिति शेषः / धरा-पृथिवी / पवित्रिता-विशुद्धीकृता / तत्-तस्माद्धेतोः / अम्भोधिःअम्भांसि जलानि धीयन्तेऽस्मिन्निति अम्भोधिः समुद्रः / अपि-सम्भावनायाम् / स्थलायताम्-स्थलं भूमिरिवाचरतु / इत्युढधिया-इत्येवं समुत्पन्नबुद्धथा / इव-यथा / भूभुजः-भुवं पृथिवीं भुनक्ति पालयतीति भूभुक् पृथ्वीपालकस्तस्य तथा / भगवतः शान्तिनाथस्येति यावत् / यशः-कीर्तिः / अखण्डडिण्डीरभरच्छलात्- अखण्डोऽविच्छिन्नश्चासौ डिण्डीरः फेनोऽखण्डडिण्डीरस्तस्य भरः समूहोऽतिशयो वाऽखण्डडिण्डीरभरस्तस्य छलं व्याजोऽखण्डडिण्डीरभरच्छलन्तस्मात्तथा / समूढम्समूहभावेन स्थितम् // 22 // किमर्कजायाः समलं जलं भवेद्, हिमाद्रिरूपेऽस्य यशोमरे स्थिरे। इतीव वाहैनिजवेगदर्पित-स्तदङ्गजेंर्गाङ्गपदात् तदाश्रितम् // 23 // ___ अन्वयः-अस्य, हिमाद्रिरूपे, यशोभरे, स्थिरे, (सति) अर्कजायाः, जलम् , किम् ,ममलम् , भवेत् , इतीव, वाहैः, निजवेगदर्पितः, तदङ्गः , गाङ्गपदात् , तत् , आश्रितम् // 23 //