________________ 164 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनावचरित्रे अन्वयः-तत्र, निजम् , अलम् , बलम् , दर्शयितुम् , बलोत्कटाः, प्रभो, भटाः, नटाः, इव, सादिवले, कुतूहलात् , मृषा, मृधम्, निबध्य, वध्यस्य, रिपोः, भिये, अभवन् // 19 // वृत्तिः-तत्र-तस्मिन् युद्धस्थले / निजम-स्वीयम् आत्मीयमिति यावत् / अलम्-पर्याप्तम् / बलम्-सामर्थ्यम् / दर्शयितुम्-समवलोकयितुम् / बलोत्कटा:-सामोद्धेतोः / प्रभोः-भगवतः शान्तिनाथस्य, विभोरिति यावत् / भटा:-योधाः वीरा इति यावत् / नटाः-नृत्यगानाथुपजीविको जातिविशेषः / इव-यथा / सादिवले-अश्वारोह्यादिविशिष्टसैन्ये / कुतूहलात-कौतूहलात् / मृषा-मिथ्या / मृधम्-मधते शोणितैरिति मृधम् युद्धम् / निबध्य-प्रकल्प्य / वध्यस्य-वधार्हस्य / रिपो:-शत्रोः / भिये-भीत्यै / अभवन्-समपद्यन्त / समजायन्नेति यावत् // 19 // जलस्य दुर्गे ह्यनलस्य संभवे, खलस्य कालाय युधे बले चले / .. निवेश्य तद्वारिपदार्थमानने, नलस्य नासीरगते वितेरतुः // 20 // अन्वयः-नलस्य, आनने, जलस्य, दुर्गे, अनलस्य, सम्भवे, तद्वारिपदार्थम् , निवेश्य, खलस्य, कालाय, युधे, चले, नासीरगते, बले, वितरतुः // 20 // वृत्तिः–नलस्य-स्थानविशेषस्य / आनने-मुखे / अग्रभागे इति यावत् / जलस्य-सलिलन पानीयस्येति यावत् / दुर्गे-दुर्गमे, कोट्टे वा, सतीतिशेषः / अनलस्य-वह्नः / सम्भवे-मार्गावरोधकतया प्राप्यमाणत्वसम्भावनायाम् / तद्वारिपदार्थम-तज्जलदुर्गम् , तं वह्निसंसर्ग च वारयति निवारयति-दूरीकरोतीति यावत् , तद्वारी स चासौ पदार्थः वस्तु तद्वारिपदार्थस्तन्तथा / जलदुर्गवारकं नौप्रमुखम् वहिवारकं जलवाहादिकश्चेत्यर्थः / हि-निश्चयेन / निवेश्य-संस्थाप्य, सम्यगायोज्येति यावत् / खलस्य-दुर्जनस्य, दुष्टस्येत्यर्थः / कालाय-'आयुघृतम्' इत्यादिवत् कालजनकाब, मृत्युप्रयोजकायेतियावत् / युधे-युद्धाय / चले-चबले / नासीरगते-सेनामुखप्राप्ते / बले-पूर्वकथित्तप्रकारेण द्विधा विभक्ते इव दृश्यमानसैन्ये / वितेरतुः-जलदुर्ग वह्विसङ्कटं च पारयामासतुः // 20 // प्रयातुमस्माकमियं कियत्पदं, भवेत् त्रिलोकीति यशोऽस्य पिण्डितम् / मृगातारागणतारकैतवाद्, नभस्य सङ्ख्येयमपीह संख्यजम् // 21 // अन्वयः-यम् , त्रिलोकी, भस्माकम् , प्रयातुम् , कियत्पदम् , भवेत् , इति, मृगाङ्कतात. गणतारकेतवात्, नभसि, मसंख्येयम् , भपि, ह, संख्यजम् , अस्य, यशः, पिण्डितम् // 21 // वृत्तिा-इयम्-एषा / त्रिलोकी-त्रयाणां लोकानां भुवनानां समाहारखिलोकी, त्रिभुवनमिव्यर्थः / अस्माकम्-शान्तिनाथसम्बन्धिना यशसामस्माकम् / प्रयातुम्-यातुम् , गन्तुमिति यावत् /