________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां तृतीयः सर्गः [163 अन्वयः-ततः, प्रतीच्छ-प्रहर, -इति, भाषिणी, पुरस्सरा, चमूः, द्विधा, विभक्ता, इव, (बभूव) जगजिघृक्षोः, इव, तस्य, नृपस्य, उभयपक्षविस्तृता, दोयी, बभौ // 17 // वृत्तिः-ततः तदनन्तरम् / प्रतीच्छाहरेतिभाषिणी-प्रतीच्छमदीयं शस्त्रं निजाङ्गे गृहाण, प्रहर-मयि प्रहारं कुरु, इति-एवंप्रकारेण भाषते वदति तच्छीला तथा "अजातेः शीले' 5 / 1 / 154 // इत्यनेन तच्छीलेऽर्थे 'णिन्' प्रत्ययः / पुरस्सरा-अग्रगामिनी / चमूः-अनीकिनी सेनेति यावत् / द्विधा-द्विप्रकारेण / विभक्ता-विभागं नीता / इव-यथा / (बभूव ) जगजिघृक्षोः-ग्रहीतुमिच्छति जिघृक्षति जिघृक्षतीति जिघृक्षुः “सन् भिक्षाऽऽशंसेरुः" 5 / 2 / 33 / / इत्यनेन 'उः' प्रत्ययः जगताम् मुवनानाम् जिघृक्षुर्जगजिघृक्षुस्तस्य तथा / समस्तसंसारकर्मकाऽऽदानेच्छावत इति यावत् / इवयथा / तस्य-प्रसिद्धस्य / नृपस्य-राज्ञः भगवतः शान्तिनाथस्येति यावत् / उभयपक्षविस्तृताउभयपक्षे विभक्तसेनाद्वयमध्ये विस्तृता विस्तीर्णा सेनाद्वयप्रान्तव्यापिनीति यावत् / दोयी-द्वावयवावस्या इति द्वयी, दोष्णोर्भुजयोर्द्वयी दोर्द्वयी, बाहुयुगलीत्यर्थः / बभौ-शुशुभे, दिदीपे इति यावत् // 17 / / बले- नृपस्यानुगताग्रगामुके, परस्परोल्लासितशल्यपल्लवे / पयोधिवेले इव दुर्धरे नद-त्रिरेखचक्राश्वगजे विरेजतुः // 18 // अन्वयः-अनुगताग्रगामुके, परस्परोल्लासितशल्यपल्लवे, पयोधिवेले, इव, दुर्धरे, नदस्त्रिरेखचक्राश्वगजे, नृपस्य, बले, विरेजतुः // 18 // वृत्तिः-अनुगताग्रगामुके-अग्रगामुकमग्रगामिनम् सेनापतिमिति यावद , अनुगते अनुसृते अनुगताग्रगामुके अनुसृतसेनापतिनिर्देशे इति यावत् / परस्परोल्लासितशल्यपल्लवे-परस्परस्य अन्योन्यस्य ( उपरि ) उल्लासिता उद्गूर्णाः युयुत्साया मृषात्वेन न तु क्षिप्ताः, शल्यानां शस्त्रविशेषाणाम् तोमराणामिति यावत् / पल्लवाः प्रान्ता याभ्यान्ते तथा / पयोधिबेले-पयोधेः समुद्रस्य वेले मय्योदे अम्भोवृद्धी इति यावत् , पयोधिवेले / इव-यथा / दुर्धरे-दूराक्रान्ते / नदत्रिरेखचक्राश्वगजे-तिस्रो रेखा अस्येति त्रिरेखः शङ्खः, चक्रमस्रविशेषः, त्रिरेखाश्च चक्राणि च अश्वास्तुरङ्गाश्च गजा हस्तिनश्च त्रिरेखचक्राश्वगजम् , सेनाङ्गत्वादेकवद्भावः, नदव गर्जत् त्रिरेखचक्राश्वगज ययोस्ते तथा / नृपस्यराज्ञः श्रीमतः शान्तिनाथस्येति यावत् / बले-पूर्वोक्तप्रकारेण विभक्ते इव दृश्यमाने सैन्यद्वये / विरेजतुः-शुशुभाते, दिदीपाते इति यावत् // 18 // प्रभोरल दर्शयितुं निज बलं, बलोत्कटास्तत्र भटा नटा इव / मृषा मृधं सादिवले कुतूहलाद, निबध्य वध्यस्य रिपोर्भियेऽभवन् // 19 //