________________ 162 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे अन्वयः-कचित् , आतिथ्यकृता, आत्मनि, कृतार्थताम् , जानता, महीभृता, प्रवेशितः, सा, चक्रभृत् , जिनः, ताभिः, जनदृष्टि वृष्टिभिः, सहैव, पुरम् , पुनाति, स्म, // 15 // - वृत्तिः–कचित्-कुत्रापि / आतिथ्यकृता-अतिथये प्राघुणाय, अभ्यागतायेति यावत् इदमातिथ्यम् तत्करोतीत्यातिथ्यकृत् तेन तथा। (अत एव ) आत्मनि-स्वस्मिन् / कृतार्थताम्-कृप्तकृत्यताम् / जानता-अवगच्छता / महीभृता-महीं पृथिवीं बिभर्ति पोषयति इति महीभृत् तेन तथा / प्रवेशितः-प्रवेशं कारितः। सः-प्रसिद्धः / चक्रभृत-चक्री / जिन:-तीर्थकृत् भगवाशान्तिनाथ इति यावत् / ताभिः-प्रसिद्धाभिः। जनदृष्टिवृष्टिभिः-जनानां (सहागत ) सेनासमवेतमानवानां दृष्टयो दर्शनानि जनदृष्टयः ता एव वृष्टयो वर्षणानि जनदृष्टिवृष्टयस्ताभिस्तथेति / सहैव-सममेव / पुरम्नगरम् / पुनाति स्म-अपुनाव पवित्रीचकारेति यावत् // 15 // स तत्र चित्रेण दिनानि कानिचिद्, व्यतीत्य नीत्यानुदिनं नवोत्सवैः / स पौरलाजोपरिवर्षहर्षितं बहिः पुरोऽभूत् पुरुहूतपौरुषः // 16 // अन्वयः- पुरुहूतपौरुषः, सः, नीत्या, अनुदिनम् , नवोत्सवैः, चित्रेण, कानिचित् , दिनानि, व्यतीत्य, सपौरलाजोपरिवर्षहर्षितम् , पुरः, बहिः, अभूत् // 16 // / __वृत्तिः-पुरुहूतपौरुषः-पुरु प्रभूतं हूतं यज्ञेष्वाह्वानमस्येति पुरुहूत इन्द्रस्तस्य पौरुषं पुरुपार्थः, सामर्थ्यमिति पौरुषं सामथ्यं यस्य स तथा, "उष्टमुखादयः" 3 / 1 / 23 // इत्यनेन बहुव्रीहिसमास उपमानवाचकपूर्वपदलोपश्च / सः-प्रसिद्धः भगवाञ्शान्तिनाथ इति यावत् / नीत्या-नयेन / न्यायेनेति यावत् / अनुदिनम्-दिनानुदिनम् उत्तरोत्तरमिति यावत् / नवोत्सवैः-नवा नूतनाश्च ते उत्सवा उद्धवा उद्धर्षा इति यावत् नवोत्सवास्तैस्तथा / चित्रेण-आश्चर्येण / तत्र-तस्मिन्नगरे / कानिचित-कियन्तिचित् / दिनानि-दिवसान् / व्यतीत्य-अतिवाह्य, गमयित्वेति यावत् / सपौरलजोपरिवर्षहर्षितम्-( पौराणां नागरिकाणां माङ्गलिकव्यवहारार्थम् लाजै राजोपरि वर्ष वर्षणम् पौरलाजोपरिवर्षः, तेन ) पुरे नगरे भवाः पौरा नागरिकास्तैः सहिताः सपौराः, उपरि राज्ञो मस्तकाद्यावयवेषु वर्षो वर्षणम् उपरि वर्षणम् लाजानां तण्डुलाद्यन्नानामुपरिवर्षों लाजोपरिवर्षः सपौराणां लाजोपरिवर्षः सपौरलाजोपरिवर्षस्तेन हर्षितम् हर्ष आमोद इति यावद्यस्मिन् कर्मणि तत् सपौरलाजोपरिवर्षहर्षितम् तद्यथा स्यात्तथा / पुरः-नगरात् / बहिरभूत-निरगच्छत् // 16 // ततः प्रतीच्छ-प्रहरेतिभाषिणी, द्विधा विभक्तेव पुरस्सग चमूः / नृपस्य तस्योभयपक्षविस्तृता, जगजिघृक्षोरिव दोर्द्वयो बभौ // 17 //