________________ -आचार्यविषयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां तृतीयः सर्गः [ 161 अन्वयः- अथ, क्षणात् , क्षणदापतिप्रभः, स्वमण्डलः, प्रभानुसन्धानकरः, अनीत्यधर्मादिषु, हानिकृत् , एषः, सकिन्नरः, नरैः परम् , मीतयशा, ( सन् ) ययौ // 14 // वृत्तिः-अथ-अनन्तरम् / क्षणात्-उत्सवाद्धेतोः / क्षणदापतिप्रभ:-क्षणमुत्सवं ददातीति भनदा रात्रिस्तस्याः पतिर्वल्लभः प्रिय इति यावत् / क्षणदापतिश्चन्द्रस्तस्य प्रभा कान्तिरिव प्रभा कान्तिर्यस्य व क्षणदापतिप्रभः "उष्ट्रमुखादयः" 3 / 1 / 23 / इत्यनेन उपमानसरूपपदलोपविशिष्टबहुव्रीहिसमासो निपात्यते / स्वमण्डलैः-स्वस्य आत्मनो मण्डलानि समूहाः स्वमण्डलानि तैस्तथा / प्रभानुसन्धानकर:प्रभया कान्त्या अनुसन्धानमनुभवो यस्य स प्रभानुसन्धानः, तादृशः करो हस्तो बलिर्वा यस्य स तथा / अबीत्यधर्मादिषु-अनीतिरन्यायोऽत्याचार इति यावत , अनीतिश्चाधर्म पुण्याभावः पापमिति यावद व अनीत्यधर्मों तावादिः प्रधानं येषु ते अनीत्यधर्मादयः / पापानुबन्धिनो विषयास्तेषु तथा / हानिकृत्-हानि न्यूनतां करोतीति हानिकृत् / अनीत्यधर्मादिष्वित्यत्र षष्ठवर्थे सप्तमी प्रकल्प्य तेषां हानिकृत् निवारक इत्यर्थोऽनुसन्धेयः / एष:-अयम् , भगवानशान्तिनाथ इति यावत् / सकिन्न।किन्नरा देवयोनिविशेषास्तैः सहिताः सकिन्नरास्तैस्तथा / नरैः-मानवैः / परम्-अतिशयेन / गीतयशाः-गीतं गानक्रिया विषयीकृतं यशः कीर्तिर्यस्य स तथा / ( सन् ) ययौ-जगाम // 13 // . इतस्ततो द्विड्नगरप्रभञ्जनात्, प्रभञ्जनाध्येयजवेन वाजिना / जनान विमुच्यैव गतं कचिनिशि, द्विषा विषादेन विषाऽदनेच्छया // 14 // अन्वयः-प्रभञ्जनाध्येयजनेन, वाजिना, इतस्ततः, द्विड्नगरप्रभञ्जनात् , दिषा, विषादेन, विषादनेच्छया, जनान् , विमुच्य, निशि, क्वचित् , गतम् , // 14 // - वृत्तिः-प्रभञ्जनाध्येयजवेन-प्रभञ्जनेन वायुना अध्येयोऽभ्यसनीयो जवो वेगो यस्मात् स प्रभजनाध्येयजवस्तेन तथा / वाजिना-अश्वेन / इतस्ततः-यत्र तत्र / द्विडनगरप्रभञ्जनात्-द्विषन्त्यप्रौतयन्तीति द्विषः शत्रवस्तेषां नगराणि पुराणि द्विड्नगराणि, तेषां प्रभञ्जनम् विध्वंसनम् , द्विड्नगरप्रभञ्जनम् तस्मात्तथा / हेत्वर्थ पश्चमी तत्प्रभञ्जनाद्धतोरिति यावत् / द्विषा-शत्रुणा / विषादेनअनुपातेन / “इष्टासिद्धिराजगुर्वाद्यपराधादिजनितोऽनु तापो विषादः" इति रसगंगाधरे जगन्नाथः / विषादनेच्छया-गरलभक्षणकामनया / जनान्-पुत्रमित्रकलत्रादिपरिजनलोकात्। विमुच्य-परित्यज्य / निशि-रात्रौ / कचित्-कुत्रापि / गतम्-यातम् , पलायितमितियावत् // 14 // महीभृताऽऽतिथ्यकृता प्रवेशिताः, कृतार्थतामात्मनि जानता कचित् / सहैव ताभिर्जनदृष्टिवृष्टिभिः, पुरं पुनाति स्म स चक्रभृजिनः // 15 //