________________ 160 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे मृगनयनानां लक्षाणि मृगाक्षिलक्षाणि तैस्तथा / अपरिमितभिर्मगलोचनाभिर्ललनाभिरिति यावत् , लक्षपदस्यानन्तोपलक्षकत्वात् / बलात्-हठात् / अतुच्छोच्छलदध्वरेणुभिः-अतुच्छा अक्षुद्राश्वोच्छलन्त उद्गच्छन्तः अतुच्छोच्छलन्तः अध्वरेणवो मार्गधूलयो येषु तानि अतुच्छोच्छलदध्वरेणूनि तैस्तथा / प्रमोदनिष्पन्दतराक्षिपक्ष्मभिः-अक्ष्णोनयनयोः पक्ष्माणि रोमाणि अक्षपक्ष्माणि प्रमोदेन अतिशयितानन्देन निस्पन्दतराणि अत्यन्तक्रियाशून्यानि प्रमोदनिस्पन्दतराणि तानि तान्यक्षिपक्ष्माणि प्रमोदनिस्पन्दतराक्षिपक्ष्माणि तैस्तथा / निरुध्यमानेक्षणम्-निरुध्यमाने ईक्षणे नयने यस्मिन् कर्मणि तन्निरुध्यमानेक्षणम् तद्यथा स्यात्तथा / अपि-सम्भावनायाम् / अतिक्षणात-महोत्सवात् 'अथोत्सवे, महःक्षणोद्धवोद्वर्षाः' 6 / 144 / / इत्यभि० चि० / समवेक्षि-समवलोकि अदीति यावत् / / 11 // स वन्द्यमानोऽप्यनवद्यधीपैः, कृपाणपाणिः कृपणैनिजौजसा / पदं दधानो न मदं मनागयं, व्यलोकि लोकैर्नगरालयैर्न लः // 12 // अन्वयः- अनवद्यधीः, कृपाणपाणिः, निजोजसा, कृपणः, नृपः, वन्द्यमानः, पदम , दधानः, अपि, मनाक , मदम् , न, (दधानः,) सः, अयम् , नगरालयः, लोकः, लः, न, व्यलोकि // 12 // ____ वृत्तिः-अनवद्यधी:-अवद्यम् , पापम् , तन्न विद्यते यत्रासावनवद्या निष्पापा धीई द्विर्यस्य सोऽनवद्यधीः / कृपाणपाणिः-कल्पते इति कृपाणः खड्गः, स पाणौ हस्ते यस्य स कृपाणपाणिः इति व्यधिकरणपदबहुव्रीहिसमासः / निनौजसा-निजं स्वीयमोजो बलं निजौजस्तेन तथा / कुपणैःदुर्विधैः दीनैरित्यर्थः / नृपैः-राजभिः / वन्द्यमानः-स्तूयमानः, पूज्यमान इति यावत् / पदम्आस्पदम् , प्रतिष्ठामिति यावत् 'स्थानं तु पदमास्पदम्' 4/54 / इत्यभि० चि० / “आस्पदं प्रतिष्ठायाम्” इति पाणिनीयसूत्रश्च / दधानः-धारयन् , अधिगच्छन्निति यावत् / अपि-सम्भावनायाम् / मनाक-ईषत् किञ्चिदपीत्यर्थः / मदम्-गर्वम् / जगन्नाथेन तु “मद्याधुपयोगजन्मा उल्लसिताख्यः शयनहसितादिहेतुर्मदः" रूपधनविद्यादिप्रयुक्ताऽऽत्मोत्कर्षज्ञानाधीनपरावहेलनं गर्वः" इति तयोर्भेद ऊरीकृतः / परन्तु तत्र व्यभिचारिभावतया भेदोपादानेऽपि प्रकृते मदपदस्य दोषपरतया गर्वानतिरेक एवाङ्गीकर्तव्यः / न-नहि / (दधानः) सः-प्रसिद्धः / अयम्-भगवाञ्छान्तिनाथः / नगरालयैःनगरे पुरे आलयो वसतिर्येषान्ते नगरालयास्तैस्तथा / नगरवासिभिरित्यर्थः / लोकैः-मानवैः जनैरिति यावत् / ल:-इन्द्रः, “अयमेवास्ति इन्द्रो नास्मात् परः कोऽपीन्द्रः" इत्येवम् / न-नहि / व्यलोकिअदर्शि / अपि तु व्यलोक्येव / नञः काकर्थकत्वात् // 12 // क्षणादर्थेष क्षणदापतिप्रभः, प्रभानुसन्धानकरः स्वमण्डलैः / अनीत्यधर्मादिषु हानिकृद्ययौ, नरैः परं गीतयशाः सकिन्नरैः // 13 //