________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां तृतीयः सर्ग: [ 159 वेशशब्दोऽपि, 'विशति चेतः' इत्यन्ये तालव्यशमाहुरित्यभि० चि० टीकावचनात् 3 / 299 / सादीअश्ववारः / गजपालबालकम्-गजान हरितनः पालयति रक्षयतीति गजपालस्तस्य बालको गजपालबालकस्तन्तथा / जगाद-उक्तवान् / किमुक्तवानित्याह / अयम-प्रत्यक्षविषयो गजः / करेणशुण्डादण्डात्मना हरतेन / स्वशिरसि-निजमस्तके / धृतात-अवस्थापितात् / रेणो:-धूलेः / परालकम्परस्यान्यस्य अलकः-चूर्णकुन्तल: वेणी वा परालकस्तन्तथा / समलम्-मलेन मालिन्येन सहितः समलो मलीनस इत्यर्थस्तन्तथा / करोति-विदधाति सम्पादयति / तत्-शुण्डादण्डकरणकस्वमस्तकावस्थापितरेणुजनितान्यदीयचूर्णकुन्तलमालिन्यसम्पादनमित्यर्थः / अहो-आश्चर्यजनकम् // 10 // ( पाठान्तरम् ) कदाप्ययं पट्टगजे रजन कचित्, स्ववाहवाहोचितवेशपेशलः / सुखासने वा नरवाहने स्थितो, द्रुतं ययौ चित्तनिलीनकौशलः // 10 // अन्वयः—अयम् कदापि, पट्टगजे, रजन् , क्वचित् , स्ववाहवाहोचितवेशपेशलः, वा, सुखासने, नरवाहने, स्थितः, चित्तनिलीनकौशलः, ( सन् ) द्रुतम् , ययौ // 10 // वृत्तिः-अयम्-सर्वसामर्थ्यसमर्थो भगवान शान्तिनाथ इत्यर्थः। कदापि-कस्मिँश्चित् समये पट्टगजे-प्रधानमतङ्गजे / रजन्-अनुरागमादधत् / क्वचित्-कुत्रापि / स्ववाहवाहोचितवेशपेशल:वाहनीभूतनिजतुरङ्गमोचितालङ्कारमनोहरः। पदच्छेदः समासादिर्वा पूर्वश्लोके द्रष्टव्यः / वा-अथवा / सुखासने-सुखेनानन्देन आस्यत उपविश्यतेऽत्रेति सुखासनम् , तस्मिँस्तथा / नरवाहने-नरैर्मानवैः कल्पितम् नरकल्पितम् , तञ्च तद्वाहनम् नरवाहनम् , तस्मिंस्तथा। स्थितः-अवस्थितः / चित्तनिलीनकौशल:-चित्ते मानसेऽन्तःकरण इति यावत् / निलीना अन्तर्हिता कौशला अयोध्या यस्य स तथा अयोध्या गन्तुमुत्सुक इति यावत् / 'साकेतं कोसलाऽयोध्या' 4 / 49 / / इति अ० चि० / (सन् ) द्रतम्शीघ्रम् / ययौ-जगाम // 10 // मृगाक्षिलक्षैः समवेक्ष्ययं चलन, बलादतुच्छोच्छलदध्वरेणुभिः / प्रमोदनिष्पन्दतराक्षिपक्ष्मभि-निरुद्धमानेक्षणमप्यतिक्षणात् // 11 // अन्वयः-चलन्, अयम् , मृगाक्षिलक्षः, बलात् , अतुच्छोच्छलदध्वरेणुभिः, प्रमोदनिष्पन्दतराक्षि• पक्मभिः, निरुद्धयमानेक्षणम् , अपि, अतिक्षणात् , समवेक्षि // 11 // . वृत्तिः-चलन्-मध्ये मार्ग गच्छन् / अयम्-भगवाञ्छान्तिनाथः / मृगाक्षिलः- मृगाक्षीणां