________________ 158 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे अशयालव:-अनिद्रालवः, निद्रामलभमाना इति यावत् / (अतएव) अद्भतात्-अद्भुततः / प्रकाशरूपा:प्रकाशस्वभावाः / बाह्यदीपप्रकाशतो विलक्षणधर्मयुक्तत्वादेतेऽद्भुतप्रकाशरूपा इति / (सन्तः) राजान इति शेषः। मनुजेशम्-नरेन्द्रम् श्रीशान्तिनाथम् / अन्वयुः-अन्वगच्छन् यथा रघुवंशे कविः कालिदासः 'स्थितः स्थितामुञ्चलितः प्रयातां, निषेदुषीमासनबन्धधीरः। जलाभिलाषी जलमाददानां, छायेव तो भूपतिरन्वगच्छत्' इति दिलीपनरेश्वरविहितनन्दिनीसमनुगमनमवर्णयत्तथैवात्रापि परं विच्छित्येति विशेषः / अत्र विरोधाभासध्वनिर्विभावना चालङ्कारः // 8 // चलन्नलंकृत्य महारयं हयं. स शक्रवचक्रधरो धराधरान / प्रकम्पयशेषविशेषभीतये, तयेह जज्ञे गजवाजिसेनया // 9 // अन्वयः-महारयम् , हयम् , अलङ्कृत्य, चलन, शक्रवत् , धराधरान , प्रकम्पयन् , चक्रधरः, सः, इह, तया, गजवाजिसेनया, शेषविशेषभीतये, जज्ञे // 9 // वृत्तिः-महारयम-महान अतिशायितो रयो वेगो यस्मिन स महारयस्तन्तथा / हयमअश्वम् / अलङ्कृत्य-अवस्थानेन संभूष्य / चलन्-विचरन् / शक्रवत्-इन्द्र इव / धराधरान्धरन्तीति धराः, धरायाः पृथिव्या धराः पर्वतास्तांस्तथा / प्रकम्पयन्-प्रचलयन् / चक्रधरः-चक्री / सः-प्रसिद्धः, भगवान शान्तिनाथ इति यावत् / इह-अस्मिन् भूमण्डले इति यावत् / तया-प्रसिद्धया, स्वीययेति शेषः / गजवाजिसेनया-गजा हस्तिनश्च वाजिनश्च गजवाजिनस्तद्विशिष्टा सेना वाहिनी गजवाजिसेना तया तथा / शेषविशेषभीतये-शेषस्य शेषनागस्य फणामण्डलनिहितसम्पूर्णभूमण्डलस्य अनन्तस्येतियावत् , विशेषभीतिरत्यन्तभयम् , शेषविशेषभीतिस्तस्यै तथा / जज्ञे-ज्ञातः // 9 // करेण रेणोः स्वशिरस्यहो धृतात्, स्ववाहवाहोचितवेशपेशलः / जगाद सादी गजपालबालकं, करोत्ययं तत्समलं परालकम् // 10 // अन्वयः-स्ववाहवाहोचितवेशपेशलः, सादी, गजपालबालकम् , जगाद, अयम् , करेण, स्वशि. रसि, धृतात्, रेणोः, परालकम् , समलम् , करोति, तत् , अहो // 10 // वृत्तिः-स्ववाहवाहोचितवेशपेशल:-स्वस्य आत्मनो वाहोऽश्वः स्ववाहः स एव वाहो वाहनम् स्ववाहवाहस्तस्य उचित उपयुक्तः स्ववाहवाहोचितः स चासौ वेशोऽलङकारादिः स्ववाहवाहोचितवेशस्तेन पेशलो रमणीयस्तथा / यद्वा-वाहान् अश्वान वाहयति प्रेरयतीति वाहवाहोऽश्वः वारः स्वस्य वाहवाहः स्ववाहवाहस्तस्योचितो यो वेशस्तेन पेशलस्तथा / अथवा-स्वस्य वाहोऽश्वः स्ववाहस्तस्य वाहः सञ्चारणम् स्ववाहवाहस्तत्र उचितो यो वेशो नेपथ्यम् , तेन पेशलस्तथा बेषार्थको