________________ 156 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे कृतसेवा तया तथा / इव-यथा / बहुरत्नभूषणैः-रत्नानां मणीनां भूषणान्यलङ्काराणि रत्नभूषणानि, बहूनि च तानि रत्नभूषणानि बहुरत्नभूषणानि तैस्तथा / अश्वरत्नम्-तुरङ्गमश्रेष्ठः / आसीत्-अभवत् / उच्चशासन:-उच्चमुन्नतम् शासनमनुशासनम् , साम्राज्यमिति यावद्यस्य स उच्चशासनः / क्षितिपाकशासनः-पाकम् तन्नामकमसुरं शास्तीति पाकशासनः इन्द्रः, क्षितेः पृथिव्याः पाकशासनः क्षितिपाकशासनः, भगवान् शान्तिनाथः / पटकृतारात्रिकम्-पटूकृतं नैरुज्याथ सम्पादितरात्रिकम् नीराजना यस्य स पटूकृतारात्रिकस्तन्तथा / तम्-प्रसिद्धम् , अश्वमिति यावत् / आरुरोह-अधिरुरोह, आरूढवानिति यावत् // 4 // निजा मयूखा इव तीक्ष्णदीधिति, सरित्प्रवाहा इव पाथसां निधिम् / विरेजिरे राजसमाजराजयो, जयोर्जितात् तं सृतसङ्गता गताः // 5 // अन्वयः-तीक्ष्णदीधितिम् , निजाः, मयूखाः, इव, पाथसाम् , निधिम् , सरित्प्रवाहाः, इव, जयोर्जितात् , मृतसङ्गताः, तम् , गताः, राजसमाजराजयः, विरेजिरे // 5 // ___ वृत्तिः-तीक्ष्णदीधितम्-तीक्ष्णा तीव्रा दीधितिः गभस्तिः किरणमिति यावद्यस्य स तीक्ष्णदीधितिः सूर्यास्तन्तथा / निना:-स्वीयाः / मयूखा:-किरणानि / इव-यथा / पायसाम्-जलानाम् / निधिम्-आकरम् / समुद्रमिति यावत् / सरित्प्रवाहा:-नदीधाराः, तदीयवेगा वा / इव-यथा / तथेति शेषः / जयोर्जितात-ऊर्जितपदस्यात्र भावप्रधानत्वाद , जयेन विजयेन ऊर्जितं बलशालित्वम् जयोर्जितम् जयोर्जितत्वमित्यर्थस्तस्मात्तथा / विजयेन बलशालित्वाद्धेतोरिति यावत् / सृतसंगता:अनुसृतसङ्गतयः, मिथः समुदिता इति यावत् / राजसमाजराजयः-राज्ञां नृपतीनां समाजा निवहाः राजसमाजास्तेषां राजयः श्रेणयो राजसमाजराजयः / तम्-प्रसिद्धम् , भगवन्तं शान्तिनाथमिति यावत् / गता:-प्राप्ताः / सन्त इति शेषः / विरेजिरे-शुशुभिरे // 5 // निरीक्ष्य केचिच्चतुराः पुराधिपाः, स्फुटारविन्दाङ्कितपाणिपङ्कजम् / स्वतोऽपि विश्वम्भरमेव मानसे, स्मृतं दधानाचरणौ प्रपेदिरे // 6 // अन्वयः-चतुराः, केचित् , पुराधिपाः, स्फुटारविन्दाङ्कितपाणिपङ्कजम् ; ( तम् ) निरीक्ष्य, स्वतः, मानसे, अपि, स्मृतम् , विश्वम्भरम् , एव, दधानाः, चरणौ, प्रपेदिरे // 6 // वृत्तिः-चतुराः-निपुणाः / केचित्-अनिर्दिष्टनामानः केचन / पुराधिपा:-पुरस्य नगरस्य अधिपा अध्यक्षास्तथा / स्फुटारविन्दाङ्कितपाणिपङ्कजम्-स्फुटं विकसितश्च तदरविन्दं कमलम् स्फुटा