________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां तृतीयः सर्गः [ 155 पमयोः संसृष्टिश्चालङ्कारः। “मिथोऽनपेक्षया तेषां स्थितिः संसृष्टिरुच्यते” इति विश्वनाथः / विषच्छिदेछेदनं छिदा. विषस्य गरलस्य 'अहंकारस्येति यावत् / छिदा यत्र स विषच्छिदस्तस्मिंस्तथा / विषयेदेशे / उच्चैश्रवसः-इन्द्राश्वस्य / श्रियम-शोभाम् / हरन्तम-अपनयन्तम् / दूरीकुर्वन्तमिति यावत् / अयम्-अयः शुभावहभाग्यमस्त्यस्येत्ययः / “अभ्रादिभ्यः" 7 / 2 / 46 / / इत्यनेन मत्वर्थे 'अ' प्रत्ययः / 'अयः शुभावहो विधि रित्यमरः। तनुमन्तम्-मूर्तिमन्तम् / ( तम्-प्रसिद्धं निजवाहनतयाऽश्वम् ) अन्तरा-विना / तमश्वं परित्यज्येत्यर्थ / हयम्-अश्वम् / वै-निश्चयेन / नते-नम्रीभूते, अधिकृते इति यावत् / नृपे-राज्ञि, राजगणे वा जात्यैकत्वविवक्षया / प्रसादात्-प्रसन्नतातः / प्रसादं प्रपद्य वा “गम्ययपः” 2 / 2 / 74 / / इति पञ्चमी / प्रतिपादयन्-ददत् / ययौ-जगाम // 2 // जयेन दीप्तः स निजाङ्गजन्मना, पुनर्जयन्त्या सुरसेनयान्वितः / जिताखिलक्ष्माभृदनल्पलोचन-श्रिया तदैन्द्रया रुरुचे विरोचनः // 3 // अन्वयः-निजाङ्गजन्मना, जयेन, दीप्तः, पुनः, जयन्त्या, सुरसेनया, अन्विता, जिताखिलक्ष्माभृत् , सः, तदा, ऐन्द्रया, अनल्पलोचनश्रिया, विरोचनः, रुरुचे // 3 // वृत्तिः-निजाङ्गजन्मना-निजमात्मीयञ्च तदङ्गम् शरीरावयवः बाहुरित्यर्थः / निजाङ्गम् ,तस्माजन्मोत्पत्तिर्यस्य स निजाङ्गजन्मा, तेन तथा / निजबाहुप्रतापार्जितेनेति यावत् / जयेन-विजयेन / दीप्तः-दीप्तिमान् / देदीप्यमान इति यावत् / पुन:-किञ्च / जयन्त्या-विजयशालिन्या / सुरसेनयादेववाहिन्या / अन्वितः-विशिष्टः / जिताखिलक्ष्माभृत-जिताः पराजिताः, अखिलक्ष्माभृतः समस्तनृपतयो येन स जिताखिलक्ष्माभृत् / सः-प्रसिद्धः, भगवान् शान्तिनाथ इति यावत् / तदा-तस्मिन् समये / ऐन्द्रया-इन्द्रस्येयम् ऐन्द्री तथा तया / अनल्पलोचनश्रिया-न अल्पानि स्तोकानि अनल्पानि तानि लोचनानि नयनानि यस्य सोऽनल्पलोचनस्तस्य श्रीः शोभा अनल्पलोचनश्रीस्तया तथा। विरोचनःविरोचनः सूर्य इव विरोचनः / लुप्तोपमा / रुरुचे-शुशुभे // 3 // सहस्रदेवैः कृतसेवयेव यो-ऽश्वरत्नमासीद् बहुरत्नभूषणैः / पटूकृतारात्रिकमुच्चशासन-स्तमारुरोह क्षितिपाकशासनः // 4 // अन्वयः-यः, सहस्रदेवैः, कृतसेवया, इव, बहुरत्नभूषणैः, अश्वरत्नम् , आसीत् , उच्चशासनः, क्षितिपाकशासनः, पटूकृतारात्रिकम् , तम् , आरुरोह // 4 // वृत्तिः—यः-वर्णितप्रकारोऽश्वः / सहस्रदेवैः-सहस्रं सहस्रसङ्ख्याकाः, देवाः सुराः सहस्रदेवास्तैस्तथा / चक्रिणो रत्नस्य यक्षसहस्राधिष्ठितत्वात् / कृतसेवया-कृता विहिता सेवा शुश्रूषा