________________ 154 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे श्चिदनुसन्धाय-विजयौजसा-विजयतेजसा, भरैः अतिशयैः, यशोभिश्च महःसहोदरम्-सूर्य्यम् , सिन्धुजम्-ऐरावणश्च जयन् इत्येवमन्वेयम् / अत्र पक्षे शीतम् इति शान्ततया शनैः शनैरित्यर्थकं पुरःप्रयाणविशेषणतयाऽनुसन्धेयम् / कारुण्यधिया-कारुण्यम् दया, सा च परदुःखापहरणेच्छा, तद्विशिष्टा धीर्बुद्धिः कारुण्यधीस्तया तथा / अरुणीभवन-अनरुणोऽरक्तोऽरुणो भवन सम्पद्यमानोऽरुणी भवन् , प्रागतत्तत्वेच्विः ' प्रत्ययः / हस्तिनापुरम्-गजाख्यराजधानीरूपा नगरीम् प्रति-उद्दिश्य / पुर प्रयाणम्प्रथमप्रस्थानम् / चकार-विदधौ, कृतवानिति यावत् // 1 // नृपाधिरोहे परितो मनोहरं, हरन्तमुच्चैःश्रवसः श्रियं हयम् / सकण्टकैस्तैः सुभटैः स्फुटीभवद्-घनाघनच्छायममंस्त हस्तिनम् // 2 // अन्वयः-नृपाधिरोहे, परितः, मनोहरम् , उच्चैःश्रवसः, श्रियम् , हरन्तम् , हयम् , सकण्टंको, तैः, सुभः, स्फुटीभवद्घनाघनच्छायम् , हस्तिनम् , अमंस्त // 2 // ___ वृत्तिः-नृपाधिरोहे-अधिरोहणमारोहणम् / अधिरोहः, नृपस्य-राज्ञोऽधिरोहो नृपाधिरोहः, कर्त्तरि षष्ठी, नृपकर्तृकारोहणमित्यर्थः, तस्मिँस्तथा / सतीतिशेषः / परितः सर्वतः / मनोहरम्रमणीकम् / उच्चैःश्रवस:-उच्चैः श्रवसी कर्णे यस्य स उच्चैश्रवाः इन्द्राश्वस्तस्य तथा / 'उच्चैःश्रवा हयः' इत्यभि० चि० / श्रियम्-शोभाम् / हरन्तम्-अपनयन्तम् , दूरीकुर्वन्तमिति यावत् / हयम् - अश्वम् / सकण्टक:-कण्टकाः क्षुद्रशत्रवस्तैः सहिताः सकण्टकास्तैस्तथा / तै:-प्रसिद्धैः / सुभेटैः-सु-शोभनाश्च ते भटा वीराः योधा इति यावत् / सुभटास्तैस्तथा / कृत्वेतिशेषः / स्फुटीभवद्घनाघनच्छायम्स्फुटीभवन्निव प्रकटीभवन्निव घनाघनो मेघः स्फुटीभवद्घनाघनस्तस्यच्छाया कान्तिः दीप्तिर्वा यत्रासौ स्फुटीभवद्घनाघनच्छायस्तन्तथा / हस्तिनम्-मतङ्गजम् / अमंस्त-अवबुध्यत // 2 // ( पाठान्तरम् ) रिपूरगाणां विषये विषच्छिदे, हरन्तमुच्चैःश्रवसः श्रियं हयम् / सर्व-नते(s)यं तनुमन्तमन्तरा, नृपे प्रसोदात् प्रतिपादयन् ययौ // 2 // अन्वयः-सः, रिपूरगाणाम् , विषच्छिदे, विषये, उच्चैःश्रवसः, श्रियम् , हरन्तम् , अयम् , तनुमन्तम् अन्तरा, हयम् , 4, नते, नृपे, प्रसादात् , प्रतिपादयन् , ययौ // 2 // वृत्तिः-स-प्रसिद्धः, चक्री, शान्तिनाथ इति यावत् / रिपूरगाणाम्-रिपवः शत्रव उरगाः सर्पा इव रिपव एव वा उरगा, रिपूरगास्तेषान्तथा / “उपमितं व्याघ्राद्यैः साम्यानुक्तौ” 3 / 1 / 102 / / इत्यनेनोपमितसमासः / अन्त्ये च "मयूरव्यंसकेत्यादयश्च" 3 / 1 / 116 // इत्यनेन रूपकसमासः / रूपको