________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां तृतीयः सर्गः [ 153 तनुः वपुः स्वकीयतनुस्तया तथा / तदा-तस्मिन् समये / रयस्मये-वेगगर्वे / प्रसभम्-हठात् / जितस्य-पराजितस्य / गरुत्मतः-गरुडस्य / ताम्-अनिर्वचनीयाम् , प्रसिद्धा वा / प्रभाम्-कान्तिम् / दधौ-दधार // 129 // गच्छाधीश्वरहीरहीरविजयाम्नाये निकाये धियां, भृत्यः श्रीविजयप्रभाख्यसुगुरोः श्रीमत्तपाख्ये गणे / शिष्यः प्राज्ञमणेः कृपादिविजयस्याशास्यमानाग्रणीश्चक्रे वाचकनाममेघविजयः शस्यां समस्यामिमाम् // 130 // . (पूर्ववद्व्याख्येयोऽयं श्लोकः ) इति-वाचकप्रवरश्रीमेघविजयजिद्गणीश्वरविरचिते श्रीनैषधीयमहाकाव्यप्रथमसर्गपादपूर्तिस्वरूपे श्रीशान्तिनाथचरित्रे शासनसम्राट्सूरिचक्रचक्रवर्तितपागच्छाधिपतिभट्टारकाचार्यमहाराजाधिराज-श्रीविजयनेमिसूरीश्वरमहाराजपट्टालङ्कारशास्त्रविशारदकविरत्नपीयूषपाणिपूज्यपादाचार्यमहाराजश्रीविजयामृतसूरीश्वर विरचित विद्वद्विनोदिनी'नामवृत्तिविभूषिते // द्वितीयः सर्गः समाप्तः // // अथ तृतीयः सर्गः // स सिन्धुजं शीतमहःसहोदरं, जयन् यशोभिर्विजयौजसां भरैः / पुरः प्रयाणं प्रति हस्तिनापुरं, चकार कारुण्यधियाऽरुणीभवन् // 1 // ___ अन्वयः-सः, विजयौजसाम् , भरैः, यशोभिः, सिन्धुजम् , शीतमहःसहोदरम् , जयन् , कारुण्यधिया, अरुणीभवन् , हस्तिनापुरम् , प्रति, पुरःपयाणम् , चकार // 1 // वृत्तिः-सः-प्रसिद्धो भगवान शान्तिनाथः / विजयोजसाम्-विजयो जयश्च ओजासि, तेषां तथा / भरैः-अतिशयैः। तैरुपलक्षितैरित्यर्थः / यशोभिः-कीर्तिभिः। सिन्धुजम्-सिन्धोः समुद्राज्जात उत्पन्नः सिन्धुजस्तन्तथा / शीतमहासहोदरम-शितं शैत्यं गुणसमाकलितम् महः किरणं यस्य स शीतमहश्चन्द्रस्तस्य सहोदरः सोदरभ्राता शीतमहःसहोदरः ऐरावणः, समुद्रोत्पन्नत्वात् , तन्तथा / जयन्-आक्रमन् , अधिक्षिपन्निति यावत् / यद्वा “जयन् यशोभिर्विजयौजसा भरैः" इति पाठं कुत्रत्य