________________ 152 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रेनेत्राणि नयनानि यस्य स सहस्रनेत्रः इन्द्रः, तस्य आकृतिराकारः सहस्रनेत्राकृतिः साऽस्त्यस्येति सहस्रनेत्राकृतिमान् / किम्-कथम् / न-नहि / भवेत् स्यात् / अहो-आश्चर्ये वितर्के वा / / 127 / / जिनो मनोभूविषयं स्वरूपतो, यमश्वमारुह्य जिगाय विस्मयात् / उपेयिवांसं प्रतिमल्लता रय-स्मये जयात्तं मनसः स्मरन्न कः॥१२८॥ अन्वयः—जिना, यम् , अश्वम् , आरुह्य, स्वरूपतः, मनोभूविषयम् , जिगाय, मनसः, जयात् , रयस्मये, प्रतिमल्लताम् , उपेयिवांसम , तम् , विस्मयात् , कः, न, स्मरेत् // 128 // वृत्तिः-जिन:-जयति रागद्वेषमोहानिति जिनोऽहन भगवान् शान्तिनाथ इति यावत् / यम-वर्णितप्रकारम् / यादृशमित्यर्थः / अश्वम्-तुरङ्गमम् / आरुह्य-अधिरुह्य, समाक्रम्येति यावत् / स्वरूपतः स्वस्य आत्मनो रूपं सौंदर्यम् स्वरूपम् तस्मात्तथा / मनोभूविषयम्-मनसि भवतीति मनोभूः कामः ईदृशो विषयो गोचरो मनोभूविषयस्तन्तथा / जिगाय-अजैषीत्, जितवान् इति यावत् / मनस:-चित्तस्य अन्तःकरणस्येति यावत् / जयात्-विजयात्, मनःकर्मकविजयत इति यावत् / रयस्मये-रयस्य वेगस्य स्मयो गर्वः रयस्मयः तस्मिँस्तथा / “रूपधनविद्यादिप्रयुक्तात्मकोत्कर्षज्ञानाधीनपरावहेलनं गर्वः” इति जगन्नाथः / प्रतिमलताम्-प्रतिभटत्वम् / उपेयिवांसम्-प्राप्तवन्तम / तम्-प्रसिद्धम् , अश्वमित्यर्थः / विस्मयात्-आश्चर्य्यात् / क:-को नाम जनः / न-नहि / स्मरेत्-स्मृतिपथमानयेत् , अपि तु सर्व एवेति भावः // 128 // विभुर्दधौ काञ्चन काञ्चनत्विषं, स्वकीयतन्वाऽद्भुततेजसा पुनः / तदा प्रभां वाहनमस्य तां रय-स्मये जितस्य प्रसभ गरुत्मतः // 129 // अन्वयः-विभुः, काञ्चन, काञ्चनत्विषम् , दधौ, पुनः, अस्य, वाहनम् , अद्भुततेजसा, स्वकीयतन्वा, तदा, रयस्मये, प्रसभम् , जितस्य, गरुत्मतः, ताम् , प्रभाम् , दधौ // 129 // वृत्तिः-विभुः-विशेषेण भवतीति विभुर्व्यापकः, प्रभुरिति यावत् / कञ्चन-कामप्यनिर्वचनीयामित्यर्थः / काञ्चनत्विषम्-काश्चनस्य सुवर्णस्य त्विट् कान्तिश्छविरिति यावत् काश्चनत्विट् तान्तथा। दधौ-धारयामास, धृतवानिति यावत् / पुनः-किश्च / अस्य-भगवतः शान्तिनाथस्य / वाहनम्-उह्यतेऽनेनेति वाहनम् , “वाह्याद्वाहनस्य” 2 / 3:72 / / इति सूत्रे निपातनादनटि दीर्घत्वम् , वहनमेव वा वाहनम् प्रज्ञादित्वात स्वार्थे ऽण्' प्रत्ययः / अश्व इति यावत् / अद्भुततेजसा-अद्भुतमाश्चर्यजनक तेजः प्रतापो यस्यां साऽद्भुततेजास्तया तथा। स्वकीयतन्या-स्वकीया स्वीया चासो