________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [151 अन्वयः-द्विजिह्वाभ्यवहारपौरुषे, अपि, गरुत्मति, रुषा, इव, धिक्कारकरे, हये, अधिरूढः सः, वसुन्धराधवः, दानवद्विषः, पराजयाय, एव // 126 // वृत्तिः-द्विजिह्वाभ्यवहारपौरुषे-द्वे द्विसङ्ख्यके जिह्वे रसने येषान्ते द्विजिह्वाः सर्पास्तेषामभ्यवहारो भक्षणम् द्विजिह्वाभ्यवहारः स एव तस्माद्वा पौरुषम् पुरुषार्थो यस्य स द्विजिह्वाभ्यवहारपौरुषस्तस्मिँस्तथा / अपि-सम्भावनायाम् / गरुत्मति-गरुडे विष्णुवाहने इति यावत् / रुषाक्रोधेन / इव-यथा / धिक्कारकरे-करोतीति करः धिक्कारस्य तिरस्कारस्य करो धिक्कारकरस्तस्मिंस्तथा / हये-अश्वे / अधिरूढः-समारूढः। सः-प्रसिद्धः / वसुन्धराधवः-वसुन्धराया पृथिव्या धवः पतिः स्वामी वसुन्धराधवः पृथ्वीपरिपालक इति यावत / भगवान् शान्तिनाथ इति यावत् / [स]दानवद्विषः-द्वेष्टथप्रीतयतीति विट् , दानवानां दैत्यानाम् द्विट् दानवद्विट् कृष्णस्तस्य तथा, यद्वा सदा-सर्वदा, नवद्विषः अनवद्विषो वेति पदच्छेदः कार्यः। पराजयाय-पराभवाय / एव-अवधारणार्थकमव्ययम् / अभवदितिशेषः // 126 // स्फुटीकृता श्रीरमुनेन्द्रधन्वनो, मुखानुषक्तायतवल्गुवलगया / हयेन तत् किं न स चक्रभृजिनः, सहस्रनेत्राकृतिमान भवेदहो // 127 / / अन्वयः-अमुना, हयेन, मुखानुषक्तायतवल्गुवल्गया, इन्द्रधन्वनः, श्री:, स्फुटीकृता, तत् , चक्रमृत् सः, जिनः, सहस्रात्राकृतिमान् , किम् , न. भवेत् , अहो ? // 127 // वृत्तिः-अमुना-विप्रकृष्टतया दृश्यमानेन / हयेन-अश्वेन / मुखानुपक्तायतवल्गुबल्गयाआयता दीर्घा चासौ वल्गुः सुन्दरी आयतवल्गुः, 'शीतोष्णं जलम्' इत्यादाविव विशेषणयोरपि कथञ्चित् परस्परं गुणप्रधानभावमनुसन्धाय विशेषणसमासः / मखे-वदने अनुषक्ता लग्ना मुखानुषक्त सा चासावायतवल्गुर्मुखानुषक्तायतवल्गुः / अत्रापि पूर्वोदीरितदिशा समासोऽनुसन्धेयः, मुखानुपक्तायतवल्गुश्चासौ वल्गा प्रग्रहः रश्मिरिति यावत् / मुखानुषक्तायतवल्गुवल्गा तया तथा कृत्वेति-शेषः। 'वल्गुः स्याच्छगले पुंसि, सुन्दरे चाभिधेयवत्' इति मेदिनी / रश्मौ वल्गाऽवक्षेपणी कुशा' 4 / 318 / इत्यभि० चि० / इन्द्रधन्वनः-इन्द्रस्य शक्रस्य धन्व धनुरिन्द्रिधन्वस्तस्य तथा / धन्वा तु मरुदेशे ना क्लीबं चापे स्थलेऽपि च' इति मेदिनी / श्री:-शोभा / स्फुीकृता-अस्फुटाऽव्यक्ता स्फुटा व्यक्ता कृतेति स्फुटीकृता, 'प्रागतत्तत्वे च्विः प्रत्ययः' प्रकटीकृतेति यावत् / भागवतोऽश्वः पुरन्दरधनु:शोभामादधादिति भावः / तत-तस्माद्धेतोः / चक्रभृत-चक्रं बिभर्ति इति चक्रभृत् / सः-प्रसिद्धः / जिनः-तीर्थकृत् भगवान् शान्तिनाथ इति यावत् / सहस्रनेत्राकृतिमान्-सहस्रं सहस्रसङ्ख्यकानि