________________ 148 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे चमूचराणामतिचारुखेलनैः, परस्परप्रेरणवादिसादिनाम् / रदावदातांशुमिषादनीदृशां, बभौ विभुस्तत् पिबतां यशोऽन्तरे // 120 // अन्वय-रदावदातांशुमिषात् . अनीदृशाम् , तत् , यशः, पिबताम् , अतिचारुखेलनै H, चमूचराणाम् , परस्परप्रेरणवादिसादिनाम् , अन्तरे, विभुः. बभौ // 120 // वृत्तिः- रदावदातांशुमिपात्-अवदाताः शुक्लाश्च ते अंशवः किरणा अवदातांशवः, रदानाम्दन्तानाम् अवदातांशवो रदावदातांशवस्तेषां मिषम्-व्याजो रदावदातांशुमिषम्, तस्मात्तथा / अनीदृशाम्-इमे स्वपक्षपातिन इव दृश्यन्ते इतीदृशो न ईदृशोऽनीदृशस्तेषामनीदृशाम् शत्रूणाम् / तत्यश:-कीर्तिम् / पिवताम्-आददानानाम् , गृह्णतामिति यावत् / अतिचारुखेलन:-अतिचारूणि अत्यन्तमनोहराणि च तानि खेलनानि क्रीडनानि अतिचारुखेलनानि तैस्तथा / चमूचराणाम्-चमूषु. सेनासु चरन्ति विचरन्तीति चमूचरास्तेषान्तथा / परस्परप्रेरणवादिसादिनाम्-परस्परप्रेरणेन अन्योन्यप्रेरणया वदन्ति निगदन्ति तच्छीलाः परस्परप्रेरणवादिनस्ते च ते सादिनोऽश्वाचारोहिणः परस्परप्रेरणवादिसादिनस्तेषान्तथा / अन्तरे-मध्ये / विभुः-प्रभुः, भगवाञ्छान्तिनाथः / बभौ-शुशुभे // 120 // ददर्श तं सादिगणं समीरणे-विधाकृतस्पर्धनवर्धनं प्रभुः / प्रसृत्वरैर्वाजिबलैश्च सत्वरै - हंसन्तमन्तबलमर्वतां रखेः // 121 // अन्वयः-प्रभुः, समीरणः, विधाकृतस्पर्धनवर्धनम् , सत्वरैः, च, प्रसृत्वरैः, वाजिबलः, रवेः, अर्वताम् . बलम् , अन्तः, हसन्तम् , तम् , सादिगणम् , ददर्श // 121 // वृत्तिः-प्रभुः-स्वामी, विभुर्वा भगवान् शान्तिनाथ इति यावत् / समीरणैः-पवनैः / द्विधाकृतस्पर्धनवर्धनम्-स्पर्धनम् स्पर्धा च वर्धनम्-छेदनश्च स्पर्धनवर्धने द्विधाकृते द्विप्रकारविहिते स्पर्धनवर्धने यस्मिन् स द्विधाकृतस्पर्धनवर्धनस्तन्तथा / सत्वरैः-त्वरया जवेन सहितानि सत्वराणि तैस्तथा / च-पुनः / प्रसृत्वरैः-प्रसरणशीलैः / वाजिबलैः-वाजिनामश्वानाम् बलानि सामर्थ्यानि वाजिबलानि तैस्तथा / रवेः-सूर्य्यस्य / अर्वताम्-अश्वानाम् 'घोटकस्तुरगस्ताय॑स्तुरङ्गोऽश्वस्तुरङ्गमः / गन्धर्वोऽसिप्तिवीती वाहो वाजी हयो हरिः' 4 / 299 / इत्यभि० चि० / बलम्-शक्तिम् / अन्तःअन्तर्मनसि, अन्तःकरणावच्छेदेनेति यावत् / हसन्तम्-विहसन्तम् / तम्-शौर्यबलतया प्रसिद्धम् / सादिगणम्-अश्वारोह्यादिकदम्बकम् / ददर्श-दृष्टवान् // 121 // सितत्विषश्चञ्चलतामुपेयुष - स्तुरङ्गरङ्गन्निवहस्य चास्यतः / श्रमात्पतत्केनमिषादरेर्यशो-निपातनं मर्दनहेतु सोऽस्मरत् // 122 //