________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [ 147 महारथस्याध्वनि चक्रवर्तिनः, परः प्रयाणश्रवणाददुद्रुवत् / अमस्त तत्राशरणः शरण्यता-मरण्ययोगस्य निशां विशां दिशा // 118 // अन्वयः-महारथस्य, चक्रवर्तिनः, प्रयाणश्रवणात् , अध्वनि, परः अदुद्रुवत् , तत्र, विशाम् , दिशा. अशरणः, अरण्ययोगस्य, (च) निशाम् , शरण्यताम् , अमंस्त // 118 // वृत्तिः--महारथस्य-महान विशालो रथः स्यन्दनं यस्य सः महारथः, आत्मानं सारथिमश्वान रक्षन योद्धा, तस्य तथा / चक्रवर्तिन:-चक्रं राष्ट्रं वर्तयति स्वातन्त्र्येण प्रवर्तयतीति चक्रवर्ती सार्वभौमस्तस्य तथा / भगवतः शान्तिनाथस्येति शेषः / प्रयाणवणात-प्रयाणस्य प्रस्थानस्य श्रवणमाकर्णनम प्रयाणश्रवणम् तस्मात्तथा / अध्वनि-मार्गे, मार्ग एवेत्यर्थः / सर्व वाक्यं सावधारणं भवतीति नियमात् / परः-शत्रुः / अदुववत्-प्रपलायिष्ट। तत्र-मार्ग। विशाम्-मनुष्याणाम् / दिशा-दिशया, मार्गेणेति लक्ष्योऽर्थः / अशरण:-नास्ति शरणं रक्षणं यस्य सोऽशरणः / अरण्ययोगस्य-अरण्ये कानने योगः सम्बन्धोऽरण्ययोगस्तस्य तथा, वनवासस्येत्यर्थः / च-पुनः / निशाम्-रात्रीणाम् / शरण्यताम्रक्षणयोग्यताम् / अमंस्त-अवाबुध्यत, ज्ञातवानिति यावत् // 118 // हयं तमारुह्य जयं पुरस्थितं, परानपेक्षोद्वहनाद् यशःसितं / समन्यमानः प्लवमानमानसः, प्रमोदकामोदधियाऽविशद् वनम् // 119 // अन्वयः-प्लवमानमानसः, सः, परानपेक्षोद्वहनात् , यशःसितम् , तम् , हयम् , आरुह्य, * जयम् , पुरस्थितम् , मन्यमानः, प्रमोद कामोदधिया, वनम् , अविशत् // 119 // वृत्तिः-प्लवमानमानसः-प्लवमानम् विस्तीर्यमाणं मानसमन्तःकरणं यस्य स प्लवमानमानसः / सः-प्रसिद्धो भगवाञ्छान्तिनाथः / परानपेक्षोद्वहनात्-अपेक्षणम्-अपेक्षा, आवश्यकतेत्यर्थः / न अपेक्षाऽनपेक्षा परेषाम् , अन्येषाम् / परस्यान्यस्य वा अपेक्षा परानपेक्षा, तया उद्वहनं धारणम् परानपेक्षोद्वहनम् तस्मात्तथा / यशःसितम्-यशसा कीा सितो धवलो यशःसितस्तन्तथा / 'मालिन्यं व्योम्नि पापे यशसि धवलता वयते हासकीयोः' ( सा. द. 7) इति विश्वनाथः / तम्-प्रसिद्धम् , तत्तद्गुणतयेति शेषः / हयम्-अश्वम् / आरुह्य-अधिरुह्य / जयम्-विजयम् / पुरःस्थितम्-अग्रे वर्तमानम् / मन्यमानः-अवबुध्यमानः / प्रमोदकामोदधिया-प्रमोदयतीति प्रमोदकः स चासावामोदो हर्षः परिमलो वा प्रमोदकामोदस्तस्य धीर्बुद्धिः प्रमोदकामोदधीः तया तथा / वनम्काननम् / अविशत्- प्रविष्टः // 119 //