________________ 146 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे __ अन्वयः-धुनाथजस्य, मे, सूरसूतानुजधी:, क, प्रभा, क, इति, अभिधातुम् , उत्सुकम् , च, गिरा, अलम् , महाशयः, अयम् , किल, आशयम् , वेद, इति, विमृश्य, मौनिनम् // 116 // वृत्तिः–धुनाथजस्य-दिव आकाशस्य नाथः स्वामी धुनाथस्तस्माज्जातो धुनाथजस्तस्य तथा, सूर्योत्पन्नस्येत्यर्थः / मे-मम, मल्लक्षणस्य शान्तिनाथीयतुरङ्गमस्येति यावत् / सूरसूतानुजधी:-सूरसूतस्य अरुणस्य अनुजोऽनुपश्चाज्जातः सूरसूतानुजः गरुडस्तस्य धीबुद्धिः सूरसूतानुजधीः, गरुडबुद्धिरित्यर्थः / क्व-कुत्र / प्रभा-कान्तिः / गरुडस्येत्यर्थः / क्व-कुत्र / इति-कथितम् , प्रकारद्वयम् / अभिधातुम्-वक्तुम् / उत्सुकम्-उन्मनस्कम् / च-पुनः / गिरा-वाण्या / अलम्-किमपि प्रयोजनम् नास्तीत्यर्थः / महाशयः-महान विशाल आशयोऽभिप्रायो यस्य स महाशयः / अयम्-पुरोवर्ती भगवान शान्तिनाथ इत्यर्थः / किल-निश्चयेन / आशयम्-अभिप्रायम् / मदीयमिति शेषः / वेद-जानाति / इति-इत्थम् / विमृश्य-विचार्य। मौनिनम्-मौनम् अभाषणम् , अहेषणमिति यावदस्त्यस्येति मौनी "अतोऽनेकस्वरादेः” 72 // 6 // इत्यनेन मत्वर्थे 'इन्' प्रत्ययः, तन्तथा / / 116 / / विजेतुमुच्चैःश्रवसं हयं हरे-भयादिवोच्चैर्बुवमुल्लसत्पदम् / न वैमनस्यं घटते सगोत्रिणः, स्वयं हयस्येति च मौनमास्थितम् // 117 // अन्वयः- हरेः, उच्चैःश्रवसम् , हयम् , विजेतुम् , उल्लसत्पदम् , च, सगोत्रिणः, हयस्य, स्वयम् , वैमनस्यम् , न, घटते, इति, भयात् , इव, ध्रुवम् , उच्चैः, मौनम् , आस्थितम् // 11 // वृत्तिः-हरे:-इन्द्रस्य / उच्च श्रवसम्-उच्चैः श्रवसी अस्य उच्चैःश्रवास्तन्तथा, इन्द्रस्याश्वमित्यर्थः 'उच्चैःश्रवा हयः' 2 / 90 / इत्यभि० चि० / हयम्-अश्वम् / विजेतुम्-अभिभवितुम् / उल्लसत्पदम- उत् उच्चैर्लसन्तौ विलसन्तौ शोभमानौ पदौ चरणौ यस्य स उल्लसत्पदस्तन्तथा / च-पुनः / सगोत्रिणः-समानं गोत्रम् नाम सगोत्रम् , तदस्त्यस्येति सगोत्री तस्य तथा / 'अथाह्वयोऽभिधा / गोत्रसंज्ञानामधेयाऽऽख्याऽऽह्वाऽभिख्याश्च नाम च 2 / 174 // इत्यभि० चि० / हरिरिति समानमुभयोरिन्द्रस्याश्वस्य च नामेति साधूक्तं सगोत्रिण इति / हयस्य-अश्वस्य / तस्येन्द्राश्वस्येति शेषः / स्वयम्आत्मना / सगोत्रेणेत्यर्थः / द्वारेति शेषः / वैमनस्यम्-विरुद्धं प्रतिकूल मनोऽन्तःकरणमस्येति विमनास्तस्य भावो वैमनस्यम् / विद्वेष इति यावत् / न-नहि / घटते-कल्पते, युज्यते इति यावत् / इतिअस्माद्धेतोः / भयात्-भीतेः, स्वबान्धवापमानजनितापराधभयादिति यावत् / इव-यथा। ध्रवम्निश्चयेन / मौनम्-अभाषणम् / अहेषणमिति यावत् / आस्थितम्-अवलम्बितम् / समाश्रितमिति यावत् // 117 //