________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [145 वृत्तिः–चतुष्पदेभ्यः-चत्वारि पदानि चरणा येषां ते चतुष्पदाः पशुत्वजातिविशिष्टाः पशव इत्वर्थः, तेभ्यस्तथा, पशुभ्यः सकाशादिति यावत् / सुगन्धिबोधने-सुष्ठु शोभनो गन्धो घ्राणेन्द्रिजन्यप्रत्यक्षविषयतामापन्नो गन्धाख्यो गुणविशेषो यस्य स सुगन्धिः, "बहुव्रीहिसमासः।" "सुपूत्युव सुरभेर्गन्धादिद् गुणे" 7 / 3 / 144 // इत्यनेन इसमासान्तः, शोभनगन्धवद्र्व्यमित्यर्थः। तस्य बोधनं बोधो ज्ञानम् सुगन्धिबोधनम् तस्मिँस्तथा / च-पुनः। प्रणये - स्नेहे / अधिकम्-अतिरिक्तम् , विलक्षणमिति यावत् / च-पुनः / अश्ववर्गे-अश्वस्य तुरङ्गमस्य वर्गः समूहोऽश्ववर्गस्तस्मिंस्तथा / अश्वानां मध्ये इति यावत् / पुरुषे-लोके जने इति यावत् / सुखावहम्-सुखं लोकोत्तरमानन्दमावहति करोतीति सुखावहस्तन्तथा / सौख्यजनकमिति यावत् / स्वम्-आत्मानम् / चलाचलप्रोथतया-चलाचलोऽतिचञ्चलः प्रोथ ओष्ठाग्रम् नासापुटं यस्य स चलाचलप्रोथस्तस्य भावः चलाचलप्रोथता तया तथा / 'प्रोथमश्वस्य नासिका' 4 / 309 / इत्यभि० चि० / महीभुजे-महीं पृथ्वी भुनक्ति पालयतीति महीभुक् तस्मै तथा / निबोधयन्तम्-ज्ञापयन्तम् // 114 // रवेरवेक्ष्याश्वगणे गतेर्भिदः, स्ववेगदर्यानिव वक्तुमुद्यतम् / तदीयशिक्षाविधये वियत्कृत-क्रमं सिसृखं त्वदसीयमान्यतः॥११५॥ अन्वयः-रवेः, अश्वगणे, गतेः, भिदः, अवेक्ष्य, स्ववेगदान , वक्तुम् , उद्यतम् , इव, तु, अदसीयमान्यतः तदीयशिक्षाविधये, वियत्कृतकमम् , सिसृक्षुम् // 115 // वृत्तिः-रव-सूर्यस्य / अश्वगणे-तुरङ्गमबजे / गतेः-गमनस्य / भिदः-भेदान् / प्रत्यहं भिमभिन्नगतिभेदानित्यर्थः / अवेक्ष्य-समालोक्य, विचार्य वा। स्ववेगदर्पान्-स्वस्य आत्मनो वेगो रयः स्ववेगस्तत्प्रयुक्ता दर्पा अहङ्काराः स्ववेगदर्पास्तान् तथा / वक्तम्-कथितुम् / प्रतिपादयितुमिति यावद / उद्यतम्-प्रस्तुतम् / इव-यथा / तु-पुनः / अद सीयमान्यतः-अमीषामश्वानामिदम् अदसीयम् तच्च तन्मान्द्यम् जडता गतिमन्दता इति यावत् अदसीयमान्द्यम् तस्मात्तथा / तदीयशिक्षाविधयेतेवामश्वानामियं तदीया. सा चासौ शिक्षाऽभ्यासस्तदीयशिक्षा तस्या विधिविधानम, तदीयशिक्षाविधिस्तस्मै तथा / वियत्कृतक्रमम्-वियति आकाशे कृताः क्रमाश्चरणा येन स वियत्कृतक्रमस्तन्तथा। आकाशोत्पतनयोग्यता शालिचरणवन्तम् / आत्मानमिति शेषः / सिसक्षम्-उत्पिपादयिषुम् / इवेति शेषः / / 115 // क सूरसूतानुजधीः क्व मे प्रभा, घुनाथजस्येत्यभिधातुमुत्सुकम् / अलं गिरा वेद किलाऽयमाशय,महाशयश्चेति विमृश्य मौनिनम् // 116 //