________________ 144 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे अश्वकर्णाह्वयतरौ, स्यात्ताय तु रसाञ्जने'इति / अधिभूधिया-अधिभवतीति अधिभूः स्वामी, तस्य धीर्बुद्धिरधिभूधीः, 'अधिभू (स्वामी ) विषयिणीबुद्धि' "अधिभूरयम्" इत्याकारिका तया तथा / रयप्रकर्षाध्ययनार्थम्-रयस्य वेगस्य प्रकर्षः प्रकृष्टता चारुत्वमित्यर्थः, रयप्रकर्षः, तस्य अध्ययनम्अभ्यासः शिक्षणमित्यर्थः। रयप्रकर्षाध्ययनम् , तत् अर्थः प्रयोजनम् यस्मिन् कर्मणि तत रयप्रकर्षाध्ययनार्थ यथा स्यात्तथा / आगतैः-समायातैः। विचित्ररूपैः-नानाविधरूपशालिभिः / सुवर्णपाणमणिमयाण्डजैः-परितोऽश्वपृष्ठमेतीति पर्याणम् "कल्याणपर्याणादयः” ( उ० 193) इति साधुः सुवर्णपर्याणम् सुवर्णपर्याणम् , मण्योमणयः रत्नानीति यावदेव मणीमयाः, ते च तेऽण्डजाः जीवप्रभेदाः मणीमयाण्डजाः सुवर्णपर्याणे मणीमहाण्डजाः सुवर्णपर्याणमणीमयाण्डजास्तैस्तथा। परितःसर्वतः / अनुवेष्टितम्-परिवारितम् // 112 // सपक्षभावात् प्रसरे सरेखतां, दिदृक्षुभिर्मक्षुरजःकणच्छलात् / पदप्रसक्तैः सततं समन्वितं, जनस्य चेतोभिरिवाणिमाङ्कितैः // 113 // अन्वयः-सपक्षभावात् , मङक्षु, प्रसरे, सरेखताम् , दिक्षुभिः, रजःकणच्छलात् , पदप्रसक्तैः, अणिमाङ्कितैः, जनस्य, चेतोभिः, सततम् , समन्वितम् , इव // 113 // वृत्तिः-सपक्षभावात-पक्षैः पतत्त्रैः सहितः सपक्षस्तस्य भावः सपक्षभावस्तस्मात्तथा / यद्यपि अश्वस्य पक्षो लोकेऽप्रसिद्धस्तथापि चक्रिमाहात्म्यात्तदीयाश्वरत्नस्य ताहगवेगेन नभोगमनशीलत्वात सपक्षत्वमनुसन्धेयम् / विपक्षविरहाद्वेत्यपि बोध्यम् / मक्षु-झगिति / प्रसरे-गमने / सरेखताम्रेखा वैशिष्ट्यसूचकचिह्नविशेषस्तया सह वर्तते इति, यद्वा रेखा सौभाग्यादिसूचकलिपिविशेषस्तया सह वर्तत इति सरेखस्तस्य भावः सरेखता तां तथा / 'लेखा राज्यां लिपावपि इत्यनेकार्थः। लियो. रैक्याद् 'रेखा' अपीतिबोध्यम् , अमरसुधायां तथोक्तेः / दिदृक्षुभिः-द्रष्टुमिच्छंद्भिः / इवेतिशेषः / रजाकणच्छलात्-धूलिलेशव्याजतः / पदप्रसक्त:-पादविलग्नैः। अणिमाङ्कितैः-अणोर्भावोऽणिमाऽणुत्वं तेन अङ्कितान्यश्चितानि अणिमाङ्कितानि, तैस्तथा / सिद्धिविशेषांकितैरिति वा / 'अणिमा लघिमा चैव, महिमा गरिमा तथा / प्राप्तिः प्राकाम्यमीशित्वं, वशित्वश्चाष्टसिद्धयः / ' इत्यमरः / जनस्य-लोकस्य / चेतोभिः-अन्तःकरणैः / सततम्-सन्ततम् / समन्वितम्-विशिष्टम् , संवलितमितियावत् / इवउत्प्रेक्षायाम् / अपहृत्यनुप्राणितोत्प्रेक्षालङ्करः / अयमाशयः, गगनाङ्गनगामि चक्रवर्तिनोऽश्वरत्नमवलोकयितुं समेषामपि जनानां चेतांसि समुत्सुकान्यासन् , धूलिकणव्याजेन तान्येवाश्वपदप्रसक्तान्यवलोक्यन्ते स्म / / 113 // चलाचलपोथतया महीभुजे, निबोधयन्तं च सुगन्धिबोधने / चतुष्पदेभ्यः प्रणयेऽपि चाधिकं, स्वमश्ववर्गे पुरुषे सुखावहम् // 114 //