________________ . -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [ 143 च जगन्नाथः “इष्टासिद्धिराजगुर्वाद्यपराधजन्योऽनुतापो विषादः" इति / इव-यथा / कचित-कुत्रापि / न-नहि / आश्रितम्-समाश्रितम् / / 110 / / भुवः स्वमातुविरहासहैः पुन-रुपास्यमानं चरणेषु रेणुभिः / पतभिरेतत्सहनं चिकीर्षुभिः, पदप्रणामे हि सतां प्रसन्नता // 111 // अन्वयः- पुनः, स्वमातुः, भुवः, विरहासहैः, एतत्सहनम् , चिकीषुभिः, ( अत एव ) पनद्भिः, रेणुभिः, चरणेषु, उपास्यमानम् , हि, पदप्रणामे, सताम् , प्रसन्नता // 111 // वृत्तिः-पुन:-तया / स्वमातु:-निजजनन्याः। भुवः-पृथिव्याः। विरहासहैः-सहन्ते मर्षन्ति इति सहाः, न सहाः असहाः, विरहस्य वियोगस्य असहा विरहासहास्तैस्तथा / एतत्सहनम्एतस्य विरहस्य तत्प्रयुक्तदुःखस्येत्यर्थः / सहनम्-मर्षणम् एतत्सहनम् / अथात्र सर्वनाम्नां प्रधानपरामर्षित्वनियमात् विरहस्य असहा विरहासहाः” इति षष्ठीतत्पुरुषसमासे उत्तरपदार्थस्यैव प्रधानत्वेन (शाब्दबोधीयमुख्यविशेष्यताश्रयत्वेन ) विरहस्याप्रधानत्वादेतत्पदेन तस्य परामर्शोऽसम्भावितः शास्त्रनियमविरुद्धश्चापीति चेत् सत्यम्-“दशैते राजमातङ्गास्तस्यैवामी तुरङ्गमाः” “दुःखत्रयाभिधानाज्जिज्ञासा तदपघातके हेतौ” इत्यादौ सर्वनाम्नोऽप्रधानपरामर्शित्वस्यापि दर्शनात् / चिकीर्षुभिःकरणेच्छावद्भिः / ( अत एव ) पतद्भिः-अधोदेशसंयोगवद्भिः / रेणुभिः-धूलिभिः / चरणेषुपादेषु / उपास्यमानम्-सेव्यमानम् / हि-यतः / पदप्रणामे-चरणप्रणिपाते / सताम्-सज्जनानाम् / प्रसन्नता-चित्तप्रसादः, अन्तःकरणाह्लाद इति यावत् / भवतीतिशेषः / अर्थान्तरन्यासोऽलङ्कारः• “ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किश्चन / तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः” इति कविर्दण्डी “सामान्यं वा विशेषो वा तदन्येन समर्थ्यते / यत्तु सोऽर्थान्तरन्यासो साधर्म्यणेतरेण वा" इति काव्यप्रकाशकारो मम्मटः // 111 // सुवर्णपर्याणमणीमयाण्डजैर्विचित्ररूपैः परितोऽनुवेष्टितम् / रयप्रकर्षाध्ययनार्थमागते-स्तदीयतााभिधयाऽधिभूधिया // 112 // अन्वयः—तदीयतायाभिधया, अधिभूधिया, रयप्रकर्षाध्ययनार्थम् , आगतः, विचित्ररूपः, सुवर्णपर्याणमणिमयाण्डजैः, परितः, अनुवेष्टितम् // 112 // वृत्तिः-तदीयतााभिधया-अभिधीयतेऽनयेत्यभिधाऽभिधानम् , नामेति यावत् / साक्ष्यत्यभिधा तााभिधा तस्य अश्वस्य इयम् तदीया सा चासौ तााभिधा तदीयतार्थ्याभिधा, तया तथा हेत्वर्थे तृतीया / ताय॑शब्दोऽश्ववाचकोऽपि, यदनेकार्थः 'ताय॑स्तु स्यन्दने वाहे, गरुडे गरुडापजे /