________________ 142 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे अन्वयः-सः, भूमिभुक , प्रभावभारः, समारुहन् . मासविता, सहस्ररुक् , भविता, इति, सदावदातः, मजुराजिभिः, केशरकेशरश्मिभिः, विराजितम् // 109 // वृत्तिः-सः-प्रसिद्धः / भूमिभुक्-भूमिं पृथिवीम् भुनक्ति पालयति इति भूमिमुक् , पृथ्वीपालक इत्यर्थः / प्रभावभारैः-भरोऽतिशय एव भारः प्रभावस्य प्रतापस्य भाराः अतिशयाः प्रभावभारास्तैस्तथा / समारुहन्-समाक्रामन् / मासविता-माया लक्ष्म्याः सविता समुत्पादको मासविता / 'लक्ष्मीः पद्मा रमा या मा ता सा श्रीः कमलेन्दिरा' 2 / 140 / इत्यभि० चि०। सहस्ररुक-सहस्रं रुचः कान्तयो यस्य स सहस्ररुक् सूर्यः / उपमानसूर्यापेक्षया मासमुत्पादकत्ववैशिष्ट्यप्रतिपादनात्प्रतीयमानो व्यतिरेकोऽत्रालङ्कारः / भविता-भविष्यति / इति-इत्येवंप्रकारविशेषसूचकैः / सदावदातै:सर्वदा शुक्लैः / मजुराजिभिः-मञ्जवो मनोहरा राजयः श्रेणयो येषान्ते मजुराजयस्तैस्तथा / केशरकेशरश्मिभि: स्कन्धे प्ररूढा ये केशरकेशाः किञ्जल्कवर्णकचाः तेषाम् , त एव (तल्लक्षणा एव) वा रश्मयः किरणानि केशरकेशरश्मयस्तैस्तथा / अत्र यद्यपि केशरशब्दोऽश्वस्कन्धप्ररूढकेशार्थे रूढ. स्तथापि केशशब्दसान्निध्यादस्याश्वस्कन्धप्ररूढमात्रार्थत्वमवसेयमिति / प्रकृते "केशर-केशर” इति यमकम् "अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः / यमकम्” इति काव्यप्रकाशे मम्मटः / विराजितमशोभितम् / यद्वा वीनां पक्षिणां राजा विराजो गरुडस्तद्वदाचरितो विराजितस्तन्तथा // 109 / / अजस्रभूमीतटकुट्टनोद्गते, रजोबजेर्दूरत एव गत्वरैः / विरोधभावादु मलिनैस्तनुत्विषा, विषादयोगादिव नाश्रित कचित् // 110 // अन्वयः-अजस्रभूमीतटकुट्टनोद्गतैः, दूरतः, एव, गत्वरः, विरोधभावात् , तनुत्विषा, मलिन:, रजोबजैः, विषादयोगात् , इव, क्वचित् , न, आश्रितम् // 11 // वृत्तिः-अजस्रभृमीतटकुट्टनोद्गतैः-भूमीतटस्य पृथ्वीतलस्य कुट्टनम् चूर्णनम् भूमीतटकुट्टनम् अजस्रं सततं यथा स्यात्तथा भूमीतटकुट्टनम् अजस्रभूमितटकुट्टनम् तस्मादुद्गतानि समुत्थितानि अजस्रभूमितटकुट्टनोद्गतानि तैस्तथा / अथ क्रियाविशेषणवाचकपदेन समासो नोपलभ्यते "स्तोकं पाकः" इत्यसमस्तप्रयोगस्यैव दर्शनादिति चेत् सत्यम् / “तन्वी श्यामा शिखरिदशना पक्कबिम्बाधरोष्ठी,मध्ये क्षामा चकितहरिणप्रेक्षणा निम्ननाभिः / श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां, या तत्र स्याधुवति विषये सृष्टिराद्यैव धातुः / " इति महाकविकालिदासीयोत्तरमेघदूतस्थपद्ये "स्तोकनम्रा" इति प्रयोगदर्शनात् / दूरतः-विप्रकृष्टतः / एव-अवधारणेऽव्ययम् / गत्वरैः-गमनशीलैः / विरोधभावात्विद्वेषात् / तनुत्विषा-शरीरकान्त्या / मलिनै:-मलीमसैः / रजोबजै:-रजसा धूलीना बजानि समूहा रजोबजानि तैस्तथा। विषादयोगात्-विषादस्यानुतापस्य योगः सम्बन्धो विषादयोगस्तस्मात्तथा / तथा