________________ -आचार्य विजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [141 हेषणाभावमिति यावत् / “अभाषणं पुनर्मोनम्” 1177 / इत्यभि० चि०। आगतम्-सम्प्राप्तम् / "तमारुरोह क्षितिपाकशासनः" इति दूरवर्तिनाऽन्वितम् // 106 // यथा मुखे पृष्ठपदे तथा स्थिति-निशीथिनीनाथमहःसहोदरैः / करैरितीवाश्रितमुज्ज्वलैरल, निगालभागेऽप्युरसा समैः समैः // 107 // - अन्वयः-यथा, मुखे, स्थितिः, तथा, पृष्ठपदे, ( अपि ) निगालभागे, अपि, उरसा, समैः, समः, निशीथि नीनाथमहामहोदरः, उज्ज्वल':, कर':, अलम , आश्रितम् , इव // 107 // ___वृत्तिः-यथा-येन प्रकारेण / मुखे-आनने / स्थिति:-अवस्थितिः / तथा-तेन प्रकारेण / पृष्ठपढ़े-पृष्ठञ्च पदानि चरणाश्च पृष्टपदम् , प्राण्यगत्वादेकवद्भावः तस्मिँस्तथा। (अपि-सम्भावनायाम्।) निगालभागे-गलप्रदेशे। अपि-सम्भावनायम् / उरसा-वक्षसा / समैः समः-तुल्यैस्तुल्यैः / निशीथिनीनाथमहःसहोदरैः-निशीथिनी रात्रिस्तस्या नाथः स्वामी, वल्लभ इति यावद / निशीथिनीनाथस्तस्य महासि तेजांसि किरणा इति यावत् निशीथिनीनाथमहांसि तेषां सहोदराः सदृशा निशीथिनीनाथमहःसहोदरास्तैस्तथा / प्रायेण सहोदराः सरूपा भवन्तीति सारूप्यं लक्ष्यते / उज्ज्वलैः-विशदैः शुक्लैरिति यावत् / करैः-किरणैः / अलम-पर्याप्तम् / आश्रितम्-सेवितम् , युक्तमिति यावत् / इव-यथा मुखपृष्ठपदगलवक्षःप्रदेशेषज्ज्वलमिति भावः / / 107 // महोदयं स्वामिनि कामितं जया-दुपादिशभिः परितस्तथोर्ध्वगः / निगालगाद्देवमणेरिवोत्थितैः, खगैर्मयूखैरिव सेवितं पुनः / / 108 // अन्वय-महोदयम् , जयात् , स्वामिनि, कामितम् , उपादिशद्भिः, तथा, परितः, ऊर्ध्वगः, . ' निगालगात् , देवमणेः, उत्थितैः, इव, खगैः, मयूखैः, पुनः, सेवितम् // 108 // वृत्ति-महोदयम्-महान अतिशयित उदयोऽभ्युदयोयस्माद्यस्य वा स महोदयस्तन्तथा / जयात्-विजयात् / स्वामिनि-प्रभौ / कामितम्-अभिलषितम् , मनोवाञ्छितमिति यावत् / उपादिशद्भिः-प्रतिपादयद्भिः / तथा-पुनः / परितः-सर्वतः / ऊध्वं गैः-उपरिगमनशीलैः। निगालगात्गलप्रदेशस्थितात् / देवमणे:-दक्षिणावर्तात् / 'देवमणिः शिवेऽश्वस्य, कण्ठावर्ते च कौस्तुभे'इति विश्वः / उत्थितैः-समुत्पन्नैः / इव-यथा / खगैः-आकाशगमनशीलैः / मयूखैः-प्रभाभिः / पुन:-अतिशयेन / सेवितम्-समाश्रितम् // 108 // प्रभावभारैभविता स भूमिभुक्, समारुहन् मासविता सहस्ररुक् / सदावदातैरिति मजुराजिभि-विराजतं केशरकेशरश्मिभिः // 109 //