________________ 140 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे दिशां जयायोद्धरसाधने मयि, नवं धनं साधु न बन्धनं पुनः / इतीव रोषादतिशायिपौरुषात्, खुराञ्चलैः क्षोभितमन्दुरोदरम् // 105 // अन्वयः—दिशाम् , जयाय, उद्धरसाधने, मयि, नवम् , धनम् , साधु, पुनः, बन्धनम् , न, इति, अतिशायिपौरुषात् , रोषात् , इव, खुराञ्चलैः, क्षोभितमन्दुरोदरम् // 105 // वृत्तिः-दिशाम-आशानाम् , दिशानामिति यावत् / जयाय-विजयाय / उद्धरसाधनेउद्गता धूरस्येत्युद्धरम् , उग्रम्, उन्नतमित्यर्थः,साध्यते निष्पाद्यतेऽनेनेति साधनम् उद्धुरञ्च तत्साधनमुद्धरसाधनम् तस्मिंस्तथा / मयि-मल्लक्षणे तुरङ्गमे इति शेषः / नवम्-नूतनम् अभिनवमिति यावत् / धनम्-वित्तम् , ऐश्वर्यमिति यावत् / साधु-समीचीनम् / पुन:-किन्तु / बन्धनम्-बद्धत्वम् / ननहि / ( साधु-समीचीनमितिशेषः)। इति-एवं विधात् / इत्थं प्रकारादिति यावत् / अतिशायिपौरुषात-अतिशेतेऽतिक्रामत्यन्यत्तच्छीलमतिशायि, अतिशायि पौरुषं पुरुषार्थो यस्मिन् सोऽतिशायिपौरुषस्तस्मात्तथा / रोषात-क्रोधात् / अत्र गुणे गुणानङ्गीकारः इति नियमात् रोषे पौरुषानवस्थानादप्रमाणमिदमिति चेन्न रोषपौरुषयोरात्मधर्मतया समानाधिकरण्यसम्बन्धेन तयोः परस्परमाधाराधेयभावे बाधकाभावात् / इव-यथा / खुराञ्चलैः-शफप्रान्तैः / क्षोभितमन्दुरोदरम्-मन्दुराया वाजिशालाया उदरः मध्यभागो मन्दुरोदरः क्षोभितो व्याकुलितो मन्दुरोदरो येन स झोभितमन्दुरोदरस्तन्तथा / “वाजिशाला तु मन्दुरा" 4 / 64 / इत्यभि० चि० / हयमुपाहरन्निति पूर्वेण सम्बन्धः॥ 105 // अथान्तरेणाऽवटुगामिनाऽध्वना- शयेन हेषारवमाप्तुमुद्यतम् / अहंकृतिः शुद्धमतेर्न सम्मता, हिताय लोकैरिति मौनमागतम् // 106 // अन्वयः- अथ, अवटुगामिना, आन्तरेण, अध्वना, हेषारवम् , आप्तुम् , उद्यतम् , शुद्धमतेः, आहकृतिः, हिताय, लौका, न, सम्मता, इति, आशयेन, मौनम् , आगतम् // 106 // वृत्तिः-अथ-अश्वोपाहरणानन्तरम् / अवटुगामिना-अवटुं घाटां कृकाटिकामिति यावद , गच्छति तच्छीलोऽवटुगामी तेन तथा / “अवटुर्घाटा कृकाटिका” इत्यमरः / आन्तरेण-कण्ठमध्यवर्तिना / अध्वना-मार्गेण / हेपारवम्-तदाख्यशब्दविशेषम् / आप्तुम्-प्राप्तुम् / उद्यतम-प्रस्तुतम् / शुद्धमतेः-विलक्षणबुद्धेः / कृते इति शेषः / अहङकृतिः-अहङ्कारः, गर्व इति यावत् / स च रूपधनविद्यादिप्रयुक्तात्मोत्कर्षज्ञानाधीनपरावहेलनमिति जगन्नाथपण्डितनरेन्द्रः। हिताय-कल्याणाय / लोकःलोक्यते शास्त्रतत्त्वमेभिरिति लोकास्तैस्तथा, विद्वद्भिजनैरिति यावत् / न-नहि / सम्मता-अभ्युपगता स्वीकृतेति यावत् संगतेत्यपि पाठः / इति एवं प्रकारेण / आशयेन-अभिप्रायेण / मौनम्-अभाषणम् ,