________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [ 139 समुत्सृज्य-परित्यज्य / नभ:-आकाशम् / यियासया-जिगमिषया / गन्तुमिच्छयेत्यर्थः / निजक्रमैःस्वचरणैः / उच्चकैः-अतिशयेन / आक्रममाणम्-आक्रमणशीलम् / तस्य-भगवतः शान्तिनाथस्य / तुरङ्गपुङ्गवम्-अश्वश्रेष्ठम् / “स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः।"प्रशस्यार्थप्रकाशकाः" 6 / 76 / इत्यभि० चि० / उपाददुः-उपाहरन आनीतवन्त इति यावत् // 102 / / हयं सपढेरुभयांशसङ्गत्तै-नरेशवस्वाञ्चलरूपशालिभिः / द्विधा विपक्षं किल जेतुमुद्यत, परेऽपि मत्वावसरं परं पुरः // 103 // अन्वयः-उभयांशसङ्गतः, नरेशवस्वाञ्चलरूपशालिभिः, सपक्षः, किल, द्विधा, विपक्षम् , जेतुम् , उद्यतम् , हयम् , परम् , अवसरम् , मत्वा, पुरः, अपि, परे // 103 // वृत्तिः-उभयांशसङ्गतैः-उभयांशेन सङ्गता मिलिता उभयांशसङ्गतास्तैस्तथा / नरेशवस्वाश्चलरूपशालिभि:-नरेशा राजानश्च वस्त्राञ्चलानि वसनप्रान्ताश्च नरेशवस्वाञ्चलानि तेषां रूपं सौन्दर्यम् नरेशवस्त्राञ्चलरूपम् तेन शालन्ते शोभन्ते तच्छीला नरेशवस्वाञ्चलरूपशालिनस्तैस्तथा / सपक्षैःसहायकवगैः / उपलक्षितमितिशेषः / किल-निश्चयेन / द्विधा-द्विप्रकारेण / विपक्षम्-वीनां पक्षिणाम् पक्षः पत्रम् विपक्षस्तन्तथा / गमनस्पर्धया वैरिणं वा, यद्वा-तनुकान्त्या गरुडम् / जेतुम्-पराभवितुम् / उद्यतम्-प्रस्तुतम् / हयम्-अश्वम् / परम्-उत्कृष्टम् / अवसरम्-योग्यकालम् / मत्वा-विज्ञाय / पुर-अग्रे / अपि-खलु / परे-श्रेष्ठे / / 103 // उदीतपरिव सादिनि स्थिते, तदंशुकस्योभयपार्श्वतोऽञ्चलैः / उपाहरन्नश्वमजस्रचञ्चलै-रमी विहङ्गैः सह यातुमुत्सुकम् // 104 // (युग्मम् ) अन्वयः-सादिनि, स्थिते, ( सति ) उभयपावता, तदंशुकस्य, अञ्चल, इव, उदीतपः, अजस्रचञ्चल', विहार, सह, यातुम् , उत्सुकम् , अश्वम् , अमी, उपाहरन् // 104 // वृत्तिः-सादिनि-अश्वारोहिणि / स्थिते-अवस्थिते / सतीति शेषः / उभयपार्वतः पार्श्वद्ववतः / तदुंशुकस्य-तस्य सादिनोंऽशुकम् वस्त्रम् तदंशुकम् तस्य तथा / अञ्चलैः-प्रान्तः / इवबथा / उदीतपक्षैः-प्रकाशितपतत्त्रैः / अजस्रचञ्चलैः-सततचलाचलैः / विहङ्ग:-पक्षिभिः / सहसमम् / यातुम्-गन्तुम् / उत्सुकम्-इष्टार्थोयुक्तम् / “इष्टार्थोद्युक्त उत्सुकः" इत्यमरः / अश्वम्तुरङ्गमम् / अमी-विप्रकृष्टाः सेवकोः। उपाहरन्-उपानयन भानीतवन्त इति यावत् // 104 / /