________________ 138 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रेविशिष्टलक्षणलक्षितमितियावद / 'पुच्छोरःखुरकेशास्यैः, सितैः स्यादष्टमङ्गल' 4 / 303 / इत्यभि० चि० / निस्समम्-समतारहितम् अतुलनीयमिति यावत् / तुरङ्गमम्-अश्वम् / अहेतुयोगतः-हेतोः कारणस्य योगः सम्बन्धो हेतुयोगः न हेतुयोगोऽहेतुयोगस्तस्मात्तथा / कारणसम्बन्धं विनेत्यर्थः / यानाययुद्धार्थप्रस्थानाय / उपानेतुम-सामीप्यं प्रापयितुम् / रयात-वेगाद् / निदेशकारिणः-निदेशमादेशमनुशासनमिति यावत् , कुर्वन्ति तच्छीला निदेशकारिणस्तांस्तथा / दिदेश-आदिशद / आदिष्टवानित्यर्थः / / 100 / / अमी ततस्तस्य विभूषितं सितं, यशोभिरीशस्य दिशोऽभितः स्थितैः / अतुच्छपुच्छे तदुरःखुरे पुनः, सुपर्णकीत्त्येव च मूर्तया श्रितम् // 101 // अन्वयः - ततः, अमी, विभूषितम् , पुनः, तस्य, ईशस्य, दिशः, अभितः, स्थितैः, यशोभिः. अतुच्छपुच्छे, तुदुरःखुरे, सितम् , च, मृत्ता, सुपर्णकीया, श्रितम् , इव // 101 // वृत्तिः–ततः तदनन्तरम् / अमी-इमे विप्रकृष्टतया वर्तमाना, निदेशकारिणः / विभूषितम्समलकृतम् / पुनः-किञ्च / तस्य-प्रसिद्धस्य / ईशस्य-प्रभोः शान्तिनाथस्य / दिश:-आशाः दिशा इति वा / अभितः-सर्वतः, चतुर्दिश्वित्यर्थः / स्थितैः-अवस्थितैः, विभ्राजमानैरित्यर्थः / यशोभिःकीर्तिभिः / अतुच्छपुच्छे-विशाललाङ्गले / तदुरःखुरे-अश्वीयवक्षस्थलशफप्रदेशविषये / प्राण्यङ्गत्वादेकवद्भावः / सितम्-शुक्लवर्णम् / च-पुनः। मृर्तया-शरीरधारिण्या। सुपर्णकीर्त्या-सुपर्णस्य पन्नगाशनस्य गरुडस्येति यावत् / कीर्तिर्यशः सुपर्णकीर्तिस्तया तथा / श्रितम्-सेवितम् , आश्रितम् , अश्वस्यास्य तद्वदतिवेगवत्त्वादिति / इव-यथा // 101 // उपाददुस्तस्य तुरङ्गपुङ्गवं, जवेऽपि मानेऽपि च पौरुषाधिकम् / धरां समुत्सृज्य नभो यियासया, निजक्रमैराक्रममाणमुच्चकैः // 102 // (युग्मम् ) अन्वयः-जवेऽपि, पौरुषाधिकम् , च, मानेऽपि, ( पौरुषाधिकम् , ) धराम् , समुत्सृज्य, नमः, यियासया, निजक्रमः, उच्चकैः, आक्रममाणम् , तस्य, तुरङ्गपुङ्गवम् , उपाददुः // 102 // वृत्तिः–जवेऽपि-वेगे खलु / पौरुषाधिकम्-पौरुषेण बलेन अधिक उत्कृष्टः, पौरुषाधिकस्तन्तथा / च-पुनः / मानेऽपि-परिमाणेऽपि / ( पौरुषाधिकम्-पौरुषम् पुरुषप्रमाणम् तस्मादधिकः पौरुषाधिकस्तन्तथा ) "ऊर्ध्वविस्तृतदोःपाणिनृमाने पौरुषं त्रिषु" इत्यमरः / धराम्-पृथिवीम् /