________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [ 137 द्वित्वमात्वञ्च, चञ्चलमित्यर्थः / “अथ चञ्चलम् / तरलं कम्पनं कम्प्रं परिप्लवचलाचले"। 691 // इत्यभि० चि० / क्रधा-क्रोधेन / ज्वलत्-सन्दीप्यत् प्रज्ज्वलनमादधदिति यावत् / स्वतन्त्रम्-अपरतन्त्रम् , अन्यानधीनत्वान्निरङ्कुशमित्यर्थः / भूपबलम्-राजसैन्यम् / अपि-सम्भावनायामव्ययम् / आमन्त्रणया-कामचारानुज्ञया / अमीमिलत्-समगमयत् , सम्मेलितवानितियावत् / / 98 // क्षितीशिता सैन्यपतेगिरा गुरुः,स्वतेजसे वाऽगरुवद् रिपून दहन् / पुरोपकण्ठं स वनं किलेक्षिता, न्यवेशयद्वस्त्रकुटीः पटीयसीः // 99 // अन्वयः-गिरा, सैन्यपतः, गुरुः, वा, अगरुवत् , स्वतेजसे, रिपून् , दहन् , क्षितीशिता, किल, परोपकण्ठम् , वनम् , ईक्षिता, सः, पटीयसी :, वस्त्रकुटीः, न्यवेशयत् // 99 // ___वृत्तिः—गिरा-वाण्या, युद्धसमुचितोपदेशात्मकवचनेनेति यावत् / सैन्य पतेः-सैन्यानामनीकिनीनां पति यकः सैन्यपतिस्तस्य तथा / गुरुः सद्धर्मनीतिमार्गाद्युपदेशकः / वा-अथवा / अगरुवत्-अगत्यनेनेत्यगरुः, अगं रोगं रुणद्धि इति वाऽगरुस्तस्यैवेत्यगरुवत् इवार्थे 'वत्' प्रत्ययः, राजाहवद, गन्धदारुवदिति यावत् / स्वतेजसे-स्वस्य आत्मनः स्वमात्मीयं वा तेजः प्रतापः प्रभाव इति यावत् / स्वतेजस्तस्मै तथा / “यत्कोशदण्ड तेजः स प्रभावः प्रतापवत्" 3 / 404 // इत्यभि० चि० / रिपून्-शत्रून् / दहन्-ज्वालयन् / संदग्धयन्निति यावत् / क्षितीशिता-क्षितेः पृथिव्या ईशिता नायकः क्षितीशिता पृथ्वीपालक इत्यर्थः / किल-सम्भावनायाम् अव्ययम निश्चयेनेत्यर्थः / पुरोपकण्ठम्नगरसमीपवति / वनम्-काननम् / ईक्षिता-समवलोकिता, द्रष्टेत्यर्थः / सः-भगवान् शान्तिनाथः / पटीयसी:-अतिशयितशोभनाः। वस्त्रकुटी:-वसनगृहान् / न्यवेशयत-व्यरचयत , व्यरीरचत् वा।।१९।। स्वयं समारोढुमना निगूढधी-स्तुरङ्गमं निस्सममष्टमङ्गलम् / रयादुपानेतुमहेतुयोगतो, दिदेश यानाय निदेशकारिणः // 100 // अन्वयः-निगूढधीः, समारोढुमनाः, स्वयम् , अष्टमङ्गलम् , निस्समम् , तुरङ्गमम् , अहेतुयोगतः, यानाय, उपानेतुम् , रयात् , निदेशकारिणः, दिदेश // 10 // वृत्तिः-निगूढधी:-निगूढा परैरत्यन्तमलक्षिता धी-बुद्धिर्यस्य स निगूढधीः / समारोदमनाः-समारोढुम् समधिरोढु मनश्चित्तं यस्य स तथा 'तुमश्च मनःकामे' 3 / 2 / 140 / इति / “लुम्पेदपश्यमः कृत्ये, तुकाममनसोरपि” इत्यभियुक्तोक्तेश्च तुमो मकारस्य लोप इति विज्ञेयम् / स्वयम्आत्मना / अष्टमङ्गलम्-अष्टौ-अष्टत्वसङ्ख्याकानि मङ्गलानि-कल्याणानि यस्य सोऽष्टमङ्गलस्तन्तथा।