________________ 136 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे निदेशस्य आज्ञाया अनुमतेरिति यावत् लाभः प्राप्तिः निदेशलाभस्तस्मै तथा / नरेशपेशलम-नराणां मनुष्याणामीशो नरेशः शान्तिनाथस्तेन पेशलः कोमलः, मनोहर इति यावत् , नरेशपेशलस्तन्तथा / नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि'इति पण्डितराजजगन्नाथः / 'यद्रा' नरेशैः उपायनप्रदानार्थमागतैः शरणागतैर्वा राजभिः पेशलो नरेशपेशलस्तान्तथा / देशम्-जनपदम् / निषेवितुम्-संसेवनायै / इयेष-जगाम // 96 // अथ श्रिया भर्त्सितमत्स्य लाञ्छनः, कचित्परोपद्रुतमण्डलश्रुतेः / स यानहेतु पटहं स्फुटं दृशा-प्यवीवदद् योधविबोधनोन्मनाः / / 97 // अन्वयः-अथ, श्रिया, भसितमत्स्यलाञ्छनः, क्वचित् , परोपद्रुतमण्डलश्रुतेः, योधविवोधनोन्मनाः, सः, दृशा, अपि, स्फुटम् , यानहेतुम् , अवीवदत् // 97 // वृत्तिः-अथ-अनन्तरम् / श्रिया-शोभया लक्ष्म्या सम्पत्त्या वा / भत्सितमत्स्यलाञ्छन्मत्स्यो मीनो लाञ्छनं चिहनं यस्य स मत्स्यलाग्छनः कामः भसितस्तर्जितस्तिरस्कृतो वा मत्स्यलान्छनो येन स तथा / कचित्-कुत्रापि / परोपद्र तमण्डलश्रुतेः-परैः शत्रुभिः उपद्रुतम् अपकारमापादितं विद्रुतं वा परोपद्रुतम्, तच्च तन्मण्डलम् देशः परोपद्रुतमण्डलम् तस्य श्रुतिः श्रवणम् परोपद्रुतमण्डलश्रुतिस्तस्यास्तथा / योधविबोधनोन्मना:-योधानां भटानां विबोधनम् वैशिष्टयेन ज्ञापनम् योधबिबोधनम् तदर्थमुन्मना उत्सुकः योधविबोधनोन्मनाः। सः-प्रसिद्धः, सेनापतिः / दृशा-नेत्रेण / तदिङ्गितेनेत्यर्थः / अपि-खलु / स्फुटम-व्यक्तं यथास्यात्तथा / यानहेतुम-यानस्य युद्धार्थ प्रयाणस्य हेतुः कारणम् यानहेतुस्तथा / पटहम्-आडम्बरम् / वाद्यविशेषम् / अवीवदत्-वादितवान् / / 97 // स्वतन्त्रमामन्त्रणयाऽप्यमीमिलत्, समं वयस्यैः स्वरहस्यवेदिभिः / चलाचलं भूपबलं क्रुधा ज्वलत्, महोज्वलं स्वामिविधेविधित्सया / / 98 // अन्वयः-स्वरहस्यवेदिभिः, वयस्यैः, समम् , स्वामिविधेः, विधित्सया, महोज्ज्वलम् , चलाचलम् , क्रुधा, ज्वलत् , स्वतन्त्रम् , भूपबलम् , अपि, आमन्त्रणया, अमीमिलत् // 98 // वृत्तिः-स्वरहस्यवेदिभिः-स्वस्य आत्मनो रहस्यानि मर्माणि स्वरहस्यानि तानि विदन्ति जानन्ति तच्छीलाः स्वरहस्यवेदिनः / वयस्यैः-सखिभिः, मित्रैरिति यावद / समम्-सह / स्वामिविधेः-स्वामिनः प्रभोविधिः कार्यम् स्वामिविधिः तस्य तथा। विधित्सया-चिकीर्षया / महोज्ज्वलम्अतिशयदीप्तम् / चलाचलम-चलतीति चलाचलम् , “चराचर चलाचल” 4 / 1 / 13 // इति अचि,