________________ -आचार्य विजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [149 अन्वयः-सः, सितत्विषः, च, चञ्चलताम् , उपेयुषः, तुरङ्गरङ्गन्निवहस्य, आस्यतः, श्रमात् , पतत्केनमिषात् , अरेः, मर्द नहेत. यशोनिपातनम् , अस्मरत् // 122 // वृत्तिः-म-प्रसिद्धो भगवान् शान्तिनाथः / सितत्विषः-सिता शुक्ला त्विट् कान्तियस्य स सितत्विट् तस्य तथा / च-पुनः / चञ्चलताम्-चलाचलताम् , चापल्यमिति यावत् / उपेयुषः-प्राप्तवतः / तुरारङ्गन्निवहस्य-रङ्गन विलसन् चासौ निवहः समूहः रङ्गन्निवहः, तुरङ्गस्य अश्वस्य रङ्गन्निवहस्तुरङ्गरङ्गन्निवहस्तस्य तथा / आस्यतः-मुखात् वदनत इति यावत् / श्रमात-परिश्रमात् / खेदविशेषादिति यावत् / बहुतरशरीरव्यापारजन्मा निःश्वासाङ्गसम्मर्दनिद्रादिकारणीभूतः खेदविशेषः श्रमः' इति जगन्नाथः / पतत्फेनमिषात-पतन्तोऽधोदेशसंयोगमाश्रयन्तश्च ते फेना डिण्डीराः पतत्फेनास्तेषां मिषं व्याजः पतत्फेनमिषन्तस्मात्तथा डिण्डीरोऽब्धिकफः फेनः' 4 / 143 / इत्यभि० चि० / अरेः-शत्रोः / मर्दनहेतु-मर्दनं पीडनम् पराजय इति यावत् / हेतुः कारणं यस्य तत्तथा। यशोनिपातनम्-यशसः कीर्त्तनिपातनम् विनाशः यशोनिपातनम् / अस्मरत-स्मृतिविषयतामानयत्, अचिन्तयदिति यावत्॥१२२।। विधूनतो वैरियशोऽधुनाऽधुनाद्, मिषेण पुच्छस्य च केसरस्य च / तदा तदाश्वस्य पदात् पदान्तर-स्पृशः समाश्वास्य जनानयं श्रमात् // 123 // अन्वयः-अयम् , तदा, तदा, श्रमात् , पदात् , पदान्तरस्पृशः, जनान, समाश्वास्य, विधूनतः, आश्वस्य, पुच्छस्य, च, केसर म्य, च, मिषेण, अधुना, वैरियशः, अधुनात् // 123 // ... वृत्ति:-अयम्-असौ, भगवान शान्तिनाथः / तदा तदा-तस्मिन् तस्मिन् समये / श्रमातशरीरव्यापारजन्यखेदात् / पदाव-स्थानात् / 'स्थानं तु पदमास्पदम्' / 4 / 54 / इत्यभि० चि० / पदान्तरस्पृश:-अन्यत् अपरं पदम् स्थानम् पदान्तरम् 'मयूरव्यंसकादित्वात् समासः' पदान्तरं स्पृशन्ति भजन्ते इति पदान्तरस्पृशः, स्थानान्तरस्थानिति यावत् / जनान्-लोकान् / समाश्वास्य-सम्भाव्य / विधूनत:-कम्पमानस्य / आश्वस्य-अश्वस्य तुरङ्गमस्य अयम् आश्वस्तस्य तथा, अश्वसम्बन्धिनः / पुच्छस्य-लागूलस्य / च-पुनः / केसरम्य-बालस्य / च-पादपूरणे / मिषेण-व्याजेन / अधुनासम्प्रति / वैरियश:-शत्रुकीर्तिम् / अधुनात्-अकम्पयत् // 123 / / प्रभोर्यशोऽपि प्रससार सर्वतः, क्षमातलं वाऽऽप्य नभस्तलं पुनः / स्फुटं चलचामरयुग्मचिह्नने-बभूव रूपं तदखण्डपिण्डितम् // 124 //