________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्ग: [ 133 वृत्तिः–प्रचलनणाम्-प्रचलन्तः प्रकर्षण गच्छन्तश्च ते नरो नरा मनुष्या इति यावद, प्रचलामरस्तेषान्तथा / विवेकप्रमुखाः-विवेकः सदसत्तत्त्वविचारः प्रमुखो मुख्यः प्रधानमिति यावद्येषु ते विवेकप्रमुखाः / गुणाः-त्यागशौर्यादिसत्त्वाद्याः / बलम्-शक्तिम् सैन्यं वा / नयम्-नीतिम् / विनिन्यु:-प्रापयामासुः / चापलम्-चपलत्त्वम् / न-नैव पुनः, निन्युरितिशेषः / ततः-तस्मात् / तनिवेशनम्-तस्य नयस्य निवेशनं चेतसि स्थापनम् तथा / च-पुनः / देशे-जनपदे / अपि-खलु / स्वसीम्नि-स्वस्य स्वीयस्य नगरस्येत्यर्थः, सोमा मर्यादा स्वसीमा तस्यान्तथा / स्वनगरप्रान्त इति यावत् / तत्प्रवेशनम्-तस्य भगवतः शान्तिनाथस्य प्रवेशनम् प्रवेशः तत्प्रवेशनम् / सुखाय-साताय, सौख्यायेति यावत् / अजनि-समपादि, जातमिति यावत् // 90 / / नयप्रवादी प्रतियानमानदन, पटुः पदव्यां पटहस्तथार्हतः। स्मरः सरन्त्यामनिरुद्धमेव यद्, विरुद्धतां वारयति स्म सङ्गतौ // 11 // अन्वयः-अर्हतः, प्रतियानम् , आनदन, नयप्रवादी, तथा, स्मरः, पटहा, सङ्गतो, पटुः, यत् , सरन्त्याम् , पदव्याम् , अनिरुद्धम् , वारयति स्म, एव // 91 // . वृत्तिः–अर्हत:-जिनेश्वरस्य, भगवतः शान्तिनाथस्येति यावत् / प्रतियानम्-यानं यानं वाहनं वाहनं प्रतियानम् / आनदन-संशब्दयन् / नयप्रवादी-नयं नीतिं प्रवदतीव तच्छीलमस्त्यस्येति नयप्रवादी, अथवा नयं प्रवदत्येवेत्यावश्यके णिनि प्रत्ययोऽनुसन्धेयः / तथा-पुनः / किञ्चेति यावत् / स्मरः-स्मर्य्यते इति स्मरः लोकैः स्मरणयोग्यः / पटह:-आडम्बरः / सङ्गतौ-ज्ञानजनने, धातूनामनेकार्थत्वात् / पटुः-समर्थः / यत्-यस्मात् / सरन्त्याम्-चलन्त्याम् / पदव्याम्-पद्धतौ / अनिरुद्धम्चपलम् , अविमृश्यकार्यकारिणम् / वारयति स्म-न्यवारयत् / “स्मातीते" इत्यमरः, ‘स्मे च वर्तमाना'५।२।१६। इति वर्तमाना / एव-नूनम् // 91 // नृपे प्रजायां सकृपे नयाव्यया-दनीतिकृद् भीतिमुपैति दुर्जनः / रविच्छविनों किमुलुकमूकतां, सृजत्ययं सर्गनिसर्ग ईदृशः // 12 // अन्वयः—नयाव्ययात् , प्रजायाम् , सकृपे, नृपे, अनीतिकृत् , दुर्जनः, भीतिम् , उपैति, अयम् , ईदृशः, सर्गनिसर्गः, (हि) रविच्छविः, उलूकमूकताम् , किम् , नो, सृजति ? // 92 // वृत्तिः–नयाव्ययात्-नयस्य नीतेरव्ययः संरक्षणम् नयाव्ययः नयेन अव्ययः, संरक्षणं वा . नयाव्ययस्तस्मात्तथा / प्रजायाम्-जने लोके इति यावत् / सकृपे–कृपया, निरुपधिदुःखापहर