SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 134 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे णेच्छया सहितः सकृपस्तस्मिँस्तथा / नृपे-राजनि, भगवति शान्तिनाथ इति यावत / अनीतिकृतअनीतिम् अन्यायं करोतीत्यनीतिकृत् / धर्मविरुद्धाचरणशील इत्यर्थः / दुर्जनो-दुष्टो जनो लोको दुर्जनः, दुरात्मा, मनोवाक्कायैभिन्नभिन्नकार्याचरणपर इति यावत् / भौतिम्-आतङ्कम् / उपैतिप्राप्नोति / अयम्-एषः / ईदृश:-एवंविधः / सर्गनिसर्गः-सर्गस्य सृष्टेः निसर्गः स्वभावः सर्गनिसर्गः / हि-यतः / रविच्छवि:-सूर्यप्रकाशः / उलूकमूकताम्-उळूकस्य घूकस्य मूकता-मौनम्अनवलोकनम् इति यावत् , उळूकमूकता तान्तथा / किम्-प्रश्नार्थकमव्ययम् / नो-नहि / सृजतिसम्पादयति, अपि तु सम्पादयत्येवेति भावः // 92 // अनङ्गचिह्न स विना शशाक नो, प्रवक्तुमन्यत् तदनन्यमानसः। . यथा भवे भावि तथैव भावना, पुरः स्फुरेद् धातुरिहातुरे हृदि // 13 // अन्वयः-तदनन्यमानसः, सः, अनङ्गचिहनम् , विना, अन्यत् , प्रवक्तुम् , नो, शशाक, इह, भवे, यथा, भावि, तथैव, धातुः, आतुरे, हृदि, भावना, पुरः, स्फुरेत् // 93 // ___ वृत्तिः-तदनन्यमानसः-तस्मात् ज्ञानात् / न-नहि / अन्यत्र मानसमन्तःकरणम् यस्य . स तथेति व्यधिकरणबहुव्रीहिः / स:-प्रसिद्धः, भगवानशान्ति नाथ इति यावत् / अनङ्गचिह्नम्न अङ्ग शरीरमात्मव्यतिरिक्ततया येषान्तेऽनङ्गाः सिद्धास्तेषां चिह्नम् ज्ञानम् अनङ्गचिह्नम् तत्तथा / विना-अन्तरेण / अन्यत्-अपरम् / प्रवक्तम्-प्रकर्षण वदितुम् / नो-नहि / शशाक-शक्तोऽभूत् , समर्थो बभूवेति यावत् / इह-अस्मिन् / भवे-संसारे / यथा-येन प्रकारेण / वस्त्वीतिशेषः / भाविभविष्यत्सत्ताकम् / तथैव-तेन प्रकारेण खलु / धातुः-परमेष्ठिनः, विधातुरिति यावत् / आतुरेव्यग्र / हृदि-अन्तःकरणे, चित्ते इति यावत् / भावना-विचारणा / पुर:-पुरस्तात् , प्रथममिति यावत् / स्फुरेद-विलसेत् / / इति // 93 / / अलं विरक्तोऽपि न राज्यभरा-द्यदासितुं संसदि यत्नवानपि / नियोगिनोऽपास्य स योगिनोऽङ्गिनो, विनोदहेतून विदधे सदःमदः॥९॥ अन्वयः- राज्यभरात् , विरक्तः, अपि, यत्नवान् , अपि, यदा, संसदि, आसितुम् , न, अलम् , (तदा) सः, नियोगिनः, अपास्य, अङ्गिना, विनोदहेतून् योगिनः, सदःसदः, विदधे, // 14 // वृत्तिः-राज्यभरात-राज्यस्य राजकर्मणः, साम्राज्यस्य वा धूर्भारो राज्यधूः, तस्याः भर आधिक्यम् राज्यधूभरस्तस्मात्तथा समासान्तविधेरनित्यत्वात् समासान्तस्य अत्प्रत्ययस्याऽभावोऽनु
SR No.004339
Book TitleShantinath Charitram
Original Sutra AuthorAmrutsuri
AuthorAbhaydevsuri
PublisherJain Sahitya Vardhak Sabha
Publication Year1965
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy