________________ 132 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र अन्वयः-अनारतम् , जयात् , तत्र, उदयाद्रिसानुनि, प्रतापभानौ, क्रमेण, स्फुटताम , उपेयुषि, सति, सः, भारतम् , प्राप्य, अबाधया, साधनम् . अपि, असाधयत् // 88 // वृत्तिः-अनारतम्-नित्यम् , सन्ततमिति यावत् / जयात-विजयात् / तत्र-तस्मिन् / उदयाद्रिसानुनि-अभ्युदयाचलप्रस्थे / “सानुरस्त्री वने प्रस्थे” इति मेदिनी / प्रतापभानौ-प्रतापः प्रभावस्तेज इति यावदेव भानुः सूर्यः, प्रतापो भानुरिवेति वा प्रतापभानुस्तस्मिंस्तथा / आद्ये मयूरव्यंसकादित्वाद् द्वितीये च "उपमेयं व्याघ्राद्यैः साम्यानुक्तौ” 3 / 1 / 102 / / इत्यनेन समासः, रूपकोपमयोः संसृष्टिः “सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः” इति काव्यप्रकाशकारो मम्मटः / क्रमेण-क्रमशः स्फुटताम्-अभिव्यक्तताम् / उपेयुषि-प्राप्तवति / सतीति शेषः / स:-जिनेषु पञ्चमचक्रवर्तितया प्रसिद्धो भगवान् शान्तिनाथः / भारतम्-भारताख्यं देशम् / प्राप्य-समधिगत्य / अबाधया-बाधा प्रतिबन्धः पीडा वा, न बाधाऽबाधा बाधाभावस्तया तथा। साधनम्-सैन्यम् गमनं वा / अपि-खलु / असाधयत्-निष्पादयाश्चकार / “साधनं मृतसंस्कारे सैन्ये सिद्धौषधौ गतौ” इति मेदिनी // 88 // अलं नलं रोद्भुमिहाभवन्नमी, भ्रमीभजन्तो रिपवोऽस्य कानने / कचिद् विमृष्टं विषमस्थलेऽचले, जलेऽतिदुर्गे स्वत एव दुर्गताः // 89 // __ अन्वयः-अस्य, स्वतः, दुर्गताः, रिपवः, इह, कानने, एव, क्वचित् , विषमस्थले, अचले, अतिदुर्गे, जले, भ्रमी:, भजन्तः, विमृष्टम् , नलम् , रोद्धम् , अलम् , अभवन् // 89 / / वृत्ति:-अस्य-भगवतः शान्तिनाथस्य / स्वतः-धनात् / दुर्गताः-दरिद्राः / अपहृतधनाः सन्तोऽकिश्चनायिता इति यावत् / रिपत्रः-शत्रवः / इह-अस्मिन् / कानने-वने / एव-अवधारणार्थकमव्ययम् / क्वचित्-कुत्रापि / विषमस्थले-विषममुच्चावचम्, नैकप्रकारमिति यावच्च तत्स्थलं स्थानं विषमस्थलम् , तस्मिंस्तथा / अचले-पर्वते / अतिदुर्गे-दुःखेन गन्तुं योग्यं दुर्गम् अति अत्यन्तं दुर्गम् अतिदुर्गम् तस्मिंस्तथा / अतिकठिनप्रवेशे इति यावत् / जले-सलिले / भ्रमी:-भ्रमणम् / भजन्त:श्रयन्तः / विमृष्टम्-सैन्यावमर्दितम् / नलम्-पर्वतीयस्थानविशेषम् / रोद्धम्-अवरोद्धम् / अलम्पर्याप्ताः, समर्थाः इति यावत् / अभवन्–समपद्यन्त / / 89 // नयं विनिन्युः प्रचलन्नृणां बलं, गुणा विवेकप्रमुखा न चापलम् / ततः सुखायाजनि तन्निवेशनं, स्वसीम्नि देशेऽपि च तत्प्रवेशिनम् // 10 // अन्वयः-प्रचलन्नृणाम् , विवेकप्रमुखाः, गुणाः, बलम् , नयम्, विनिन्युः, चापलम् , न, तत् , तन्निवेशनम् , च, देशे, अपि, स्वसीम्नि, तत्प्रवेशनम् , सुखाय, अजनि // 90 //