________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [ 131 वृत्तिः-य: यादृशो भगवान् शान्तिनाथः / वा-वितर्के पादपूरणे वा / “वा स्याद् विकल्पोपमयोर्वितर्के पादपूरणे" इति मेदिनी / जितेन्द्रियाणाम-जितानि वशीकृतानीन्द्रियाणि हृषीकाणि यैस्ते जितेन्द्रियास्तेषान्तथा / वशिनामित्यर्थः / धुरि-अग्रे / कीर्तितस्थिति:-कीर्तिता स्तुता स्थितिमर्यादा यस्य तथा / “स्थितिः स्त्रियामवस्थाने मर्यादायाञ्च सीमनि” इति मेदिनी / चरणे-चारित्रे, "चरित्रं चरिताचारौ चारित्रचरणे अपि” 3507 / / इत्यभि० चि० / अतिकौशलम्-कुशलस्य निपुणस्य भावः कौशलम् / अति-अत्यन्तम् च तत् कौशलम् अतिकौशलम् विलक्षणप्रावीण्यमिति यावत् / दधारधारयामास / सः-प्रसिद्धः, भगवाञ्छान्तिनाथः / स्वयम्-आत्मना “स्वयमात्मना" इत्यमरः / अतिकौशलम्-कौशलमयोध्यामतिक्रान्तोऽतिकौशलस्तन्तथा / विषयम्-देशम् / श्रयन्-भजन , आश्रयन्निति यावत् / मार्गणीये-याचकसम्बन्धिनि। रणे-शब्दे / श्रते-इतिशेषः / दधारया-दं दानम् , तस्य धारा निरवच्छिन्नप्रणाली दधारा तया तथा दस्य दानार्थकता 'ददद' इत्यादिवेदवचनतो व्यक्तैव उवाच-उक्तवान् / यमकालंकारः / / 86 / / पुरः प्रयाणे न्यरुधद् न कोऽप्यमुं, यियासुमने खलु हस्तिनापुरम् / असंवरेऽसंवरवैरिविक्रमे, विना श्रमं भङ्गमुपेयुषि क्रमात् // 87 // अन्वयः-श्रमम् , विना, क्रमात् , असंवरवैरिविक्रमे, भङ्गम् , उपेयुषि, ( सति ) पुरः, असंवरे, प्रयाणे, हस्तिनापुरम् , ( प्रति ) खलु, अग्रे, यियासम् , अमुम् , कोऽपि, न, न्यरुधत् // 87 // . वृत्तिः-श्रमम्-प्रयासम् / विना-अन्तरेण / क्रमात्-क्रमशः / असंवरवैरिविक्रमे-वैरिणां शत्रणाम् विक्रमः पराक्रमः वैरिविक्रमः असंवरोऽप्रतिहतः प्रबल इति यावच्चासौ वैरिविक्रमः असंवरवैरिविक्रमस्तस्मिँस्तथा / भङ्गम् --विनाशम् / उपेयुषि-प्राप्तवति / सतीतिशेषः / पुरः-नगरात् / “पूः स्त्री पुरीनगर्यो वा” इत्यमरः / असंवरे-अप्रतिहते सुनिश्चिते इति यावत् / प्रयाणे-प्रस्थाने / हस्तिनापुरम्-भारतराजधानीत्वेन स्वनामप्रसिद्धनगरम् / (प्रतिलक्ष्यी कृत्य ) / खलु-निश्चयेन / अग्रे-पुरतः। यियासुम्-यातुकामम् / अमुम्-भगवन्तम् , शान्तिनाथमिति यावत् / कोऽपि-कश्चिदपि शत्रुमित्रोदासीन इति यावत् / न-नहि / न्यरुधत-न्यवारयत् / 'विना श्रमं नश्यति तस्य तेजसे' तिपाठोऽपि तुर्यपादस्थाने दृश्यते प्रतिविशेषे सोऽपि स्पष्ट एव // 87 // असाधयत् साधनमप्यबाधया, स भारतं प्राप्य जयादनारतम् / प्रतापभानावुदयाद्रिसानुनि, क्रमेण तत्र स्फुटतामुपेयुषि // 8 //