________________ 130 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे वृत्तिः-सशर्मनर्मणे-शर्मणा सौख्येन सहितम् सशर्म, तच्च तन्नम क्रीडा च सशर्मनर्म तस्मै तथा / “केलिद्रवः परीहासः क्रीडा लीला च नर्म च” 3 / 219 / इत्यभि० चि० / कर्म-क्रियाम् / आचारमिति यावत् / प्रवर्तयन्-सञ्चोदयन् / सधर्मधी:-धर्मेण पुण्येन सुकृतेनेति यावत् / सहिता-सधर्मा, सा धीर्बुद्धिर्यस्य स तथा / सद्व्यवहारधारण:-सन् समीचीनो व्यवहारः आचारः सद्व्यवहारस्तस्य धारणः धर्ता सद्व्यवहारधारणः, सदाचारानुष्ठातेति यावत् / सः-प्रसिद्धो भगवान् शान्तिनाथः / विनिश्चयात-वि-विशिष्टोऽलौकिकचमत्कारशाली निश्चयो निश्चयनयः,विनिश्चयस्तस्मात्तथा। वीतराग:वीतो विशेषेण इतो गतो रागः, अनुरागो मात्सर्यश्च यस्मात् स वीतरागः / यत्-यस्माद्धेतोः / पश्चममूर्च्छनाए-पञ्चमस्य पञ्चमरागस्य मूर्च्छनाः निषादादिसप्तस्वरसम्बन्ध्यारोहावरोवरोहक्रमाः पञ्चममूर्च्छनास्तासु तथा / अपि-सम्भावनायाम् / पुन:-निश्चयेन / अव्ययानामनेकार्थत्वात् / ननहि / मुमूर्छ-अमुह्यत् // 84 // अवाप सापत्रपतां स भूपति-गुरुत्वमन्यत्र नयाय शिक्षयन् / प्रशस्यमुद्दिश्य दयादमक्रम, पुरः पुरश्चात्मविवोधनक्षमम् // 85 // अन्वयः-सः, भूपतिः, अन्यत्र, नयाय, पुरः, पुरः, आत्मविबोधनक्षमम् , प्रशस्यम् , दयादमक्रमम् , उद्दिश्य, सापत्रपताम् , शिक्षयन, गुरुत्वम् , अवाप // 85 // वृत्तिः-सः-प्रसिद्धः। भूपतिः-पृथिवीनायकः / भगवाञ्छान्तिनाथ इति यावत् / अन्यत्रलोके / नयाय-नीत्यै / पुरःपुर:-अग्रतोऽप्रतः / “पुरः पुरस्ताव पुरतोऽग्रतः” 6 / 165 / इत्यभि० चि० / आत्मविवोधनक्षमम्-परमात्मतत्त्वावबोधनसमर्थम् / प्रशस्यम्-प्रशंसनीयम् / दयादमक्रमम्निरुपाधिपरदुःखापहरणेच्छा दया, दमश्च दयादमौ अभ्यर्हितत्वाद्दयाशब्दस्य पूर्वनिपातः, तयोः क्रमः परिपाटी दयादमक्रमस्तन्तथा / उद्दिश्य-लक्ष्न्यीकृत्य / सापत्रपताम्-अन्यतो लज्जाऽपत्रपा, तया सहवर्तमानः सापत्रपस्तस्य भावः सापत्रपता तान्तथा / “लज्जा साऽपत्रपाऽन्यतः" इत्यमरः। शिक्षयन्बोधयन् / गुरुत्वम्-गौरवम् / अवाप-प्राप्तवान् , समधिजगामेति यावद / / 85 // दधार यो वा चरणेऽतिकौशलं, जितेन्द्रियाणां धुरि कीर्तितस्थितिः / दधारयोवा चरणेऽतिकौशलं, स मार्गणीये विषयं श्रयन् स्वयम् // 86 // अन्वयः- यः, वा, जितेन्द्रियाणाम् , धुरि, कीर्तितस्थितिः, चरणे, अतिकौशलम् , दधार, सः, स्वयम् , अतिकौशलम् , विषयम् , श्रयन् , मार्गणीये, रणे, दधारया, उवाच // 86 //