________________ -बाचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [ 129 अन्वयः-अलीकवीक्षिताम् , पुरस्थिताम् , ताम् , अनुनीय, अयम् , क्षितीश्वरः, साशयम् , बभाषे, यत् , अधुना, क्षितिम्, किम् , ईक्षसे, मयि, पिये, विप्रियम्, किम् , आदधासि ?, // 82 // वृत्तिः-अलीकवीक्षिताम्-अलीकं मृषा वीक्षितं वीक्षणमवलोकनमस्याः सा तां तथा, पदार्थान्तरदर्शनव्याजेन प्रियाननदर्शनक/मिति भावः। पुरस्थिताम्-समीपवर्तिनीम् / ताम्-भीमदुहितरम् / अनुनीय-स्वानुकूलां विधाय, प्रणिपाताद्युपायेन मानमुक्तां कृत्वेतियावत् / अयम्-असौ / क्षितीश्वर:-राजा / साशयम् -साभिप्रायम् / बभाषे-ऊचे / यत्-यतः / अधुना-साम्प्रतमपि, मयाऽनुनयं विहितेऽपीतियावत् / क्षितिम्-पृथ्वीम् , अधोमुखमितिभावः / क्षयं क्षतिं वा / किम-कथम् / ईक्षसे-विलोकसे / मयि-मल्लक्षणे / प्रिये-भर्तरि / विप्रयम-अपराधम् , 'कृतवानसि विप्रियं न मे' इति कुमारः / किम्-किमर्थम् / आदधासि-आरोपयसि // 82 // ततः प्रियामित्यनुनीय सत्त्वतः, समाधिमाधाय निजात्मनात्मनि / समाज एवालपितासु वैणिकः, प्रणीतवीणासु रराज राजभिः // 83 // अन्वयः-ततः, इति, सत्वतः, प्रियाम् , अनुनीय, निजात्मना, आत्मनि, समाधिम् , आधाय, वैणिकः, प्रणीतवीणासु, आलपितासु, समाजे, एव, राजभिः, रराज // 83 // वृत्तिः-ततः-तदनन्तरम् / इति एवं प्रकारेण / सत्त्वतः-सात्त्विकगुणयोगादित्यर्थः, सात्त्विक-भावेनेतियावत् / प्रियाम्-वल्लभाम् / अनुनीय-मधुरवचनादिभिःप्रणिपातादिभिर्वा सान्त्व· * यित्वा / निजात्मना-स्वप्रयत्नेन / “आत्मा पुंसि स्वभावेऽपि प्रयत्नमनसोरपि” इति मेदिनी / समाधिम्-सम्यगाधीयते समाधिः, समाधानमितियावत् / आधाय-संस्थाप्य / धारयित्वेति यावत् / वैणिक:-वीणावादनकुशलैः / प्रणीतवीणासु-प्रणीताश्च ता वीणाः प्रणीतवीणास्तासु तथा / आलपितासु-पुनः पुनर्गीतासु। सतीष्वीति शेषः। समाजे-सभायाम् / एव-अवधारणार्थकमव्ययम् / राजभिःनृपतिभिः / सहेति शेषः / रराज–दिदीपे, शुशुभे इति यावत् / / 83 // सधर्मधीः कर्म सशर्मनर्मणे, प्रवर्तयन् सद्व्यवहारधारणः / न वीतरागः स विनिश्चयात्पुन-मुमूर्छ यत्पञ्चममूर्च्छनास्वपि // 84 // अन्वयः- सशर्मनर्मणे, कर्म, प्रवर्तयन् , सधर्मधीः, सद्व्यवहारधारणः, सः, विनिश्चयात् , वीतरागः, यत् , पञ्चममूर्च्छनासु अपि, पुनः, न, मुमूर्च्छ // 84 //