________________ 128 ] श्रीजैननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे वृत्तिः-च-पुनः / सः-सेनापतित्वेन प्रसिद्धो नैषधः / कचित-कुत्रापि / दानावसरेदीनजनोद्देश्यकधनदानोचितकाले / विमुद्रणाव-विगतं मुद्रणं विमुद्रणम् तस्मात्तथा, मुद्रणत्यागादिति यावत्, मुद्रणापनयनादिति हृदयम् / शङ्खस्य-तदाख्यस्य / निधेः-निधानस्य / धैर्यकम्-धृतिम् धीरतामिति यावत् / धैर्यकमित्यत्र धीरतावाचकधैर्यशब्दात् स्वार्थे 'क' प्रत्ययो बोध्यः / विभेदअभिनत्, विदारयामासेत्यर्थः, दूरीचकारेति तु भावः / तथा-किञ्च / भीमभुवः-भीमनन्दिन्याः / मुखे-आनने / अधिचन्द्रताविभावनात्-अधि अधिकश्चन्द्रः स्वर्णम् अधिकचन्द्रस्तस्य भावोऽधिचन्द्रता तस्या विभावनम्-प्रकाशनम् अधिचन्द्रताविभावनम् तस्मात्तथा / अधिकस्वर्णभूषणादिप्रकटनादित्यर्थः स्वर्ण..."तपनीयचामीकरचन्द्रभर्मे-' 4-110 इत्यभि० चि० / पाण्डुताम्-पाण्डुनामकनिधे वम् / अपललाप-अपालपत् / चिशेपेतियावत् // 80 / / शशाक निहनोतुमये न तत्प्रिया, प्रियाशयं साम यदा स चाश्रयन् ! तदीयकोपस्य जिहीर्षुचेतसा, तदा चकारानुनयं नयं विदन् // 81 // अन्वयः --- अये, यदा, सत्प्रिया, प्रियाशयम् , निनोतुम् , न, शशाक, तदा, साम, आश्रयन् , च, नयम् , विदन् , सः, तदीयकोपस्य, जिहीषु चेतसा, अनुनयम् , चकार // 81 // वृत्तिः-अये !-कष्टम् / “अये क्रोधे विषादे च” इति विश्वः / यदा-यस्मिन् समये / तत्प्रिया-नैषधप्रेयसी / प्रियाशयम्-प्रियो हृद्यः अभीष्ट इति यावदाशयोऽभिप्रायः प्रियाशयस्तन्तथा, प्रियस्य वल्लभस्य आशयो वा प्रियाशयस्तन्तथा / निहनोतुम-अपलपितुम् / न-नहि / शशाकअशकद , समर्था नाभूदिति यावत् / तदा-तस्मिन् समये / साम-सामाख्यमुपायविशेषम् / “साम क्लीवमुपायस्य भेदे वेदान्तरेऽपि च” इति मेदिनी। आश्रयन्-समवलम्बमानः / च-पुनः / नयम्नीतिम् / विदन्-जानन् , अवगच्छन्निति यावत् / सः सेनानायकत्वेन प्रसिद्धो नैषधः / तदीयकोपस्य-तस्या अयम् तदीयः स चासौ कोपः क्रोधस्तदीयकोपस्तस्य तथा / सर्वनाम्नो वृत्तिमात्रे पुंवद्भावनियमात् / जिहीषु चेतसा-जिहीर्षु हरणेच्छु चादश्चेतोऽन्तःकरणम्, मन इति यावत् , जिहीषुचेतस्तेन तथा / अनुनयम्-अनुनयनमनुनयस्तन्तथा / प्रणिपातमित्यर्थः / “प्रणतिः प्रणिपातो. ऽनुनये” 6 / 139 / इत्यभि० चि० / चकार-कृतवान् / / 81 // / पुरस्थितां तामनुनीय साशय-मयं बभाषे यदलीकवीक्षिताम् / क्षितीश्वरः किं क्षितिमीक्षसेऽधुना,मयि प्रिये विप्रियमादधासि किम् // 82 //