________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [ 127 वृत्तिः-यदा-यस्मिन् समये / भीमजा-भीमनरेन्द्रनन्दिनी / प्रयाणान्तरिता-प्रयाणे प्रस्थाने, अन्तरिता व्यवहिता प्रयाणान्तरिता / अपि-सम्भावनायाम् / केनापि-केनचिदनिर्वचनीयेन / मिषेण-व्याजेन / वियोगजाम्-विप्रलम्भजनिताम् / निःश्वासततिम्-निश्वसितविस्तारम् / जगोप-गोपयाञ्चकार / जनात्-लोकात् / अवगम्य-विज्ञाय / कापि-कुत्रचित् / सन्निधिम्-सन्निधानम् , सान्निध्यम् , सामीप्यमिति यावत् / अवलम्ब्य-समवस्थाप्य / ताम्-भीमजाम् / निनायप्रापयामास / / 78 // नवाप्यथासन निधयः स्त्रियोऽनुगा, भुवा निगूढ़ा अपि साधनात् प्रभोः। विलेपनस्याधिकचन्द्रभागता-र्पणात्सितास्या इव मुद्रयान्तिके // 79 // अन्वयः- अथ, भुवा, निगूढाः, अपि, अधिकचन्द्रभागतार्पणात् , साधनात् , विलेपनस्य, मुद्रया, सितास्याः, अनुगाः, स्त्रियः, इव, नवापि, निधयः, प्रभोः, अन्तिके, आसन् , // 79 // वृत्ति-अथ-वैताढ्यनगदक्षिणभागागमनानन्तरम् / भुवा-भूतलेन / निगूढाः-संगुप्ताः, महीमध्यमध्यासिताः इति यावत् / अपि-तथापि / अधिकचन्द्रभागतार्पणात-चन्द्रस्य कर्पूरस्य भागो शश्चन्द्रभागः, अधिकश्चन्द्रभागः अधिकचन्द्रभागः, तस्य भावोऽधिकचन्द्रभागता तस्या अर्पणात् / 'चन्द्रोऽम्बुकाम्ययोः, स्वर्णे सुधांशो कर्पूरे, काम्पिल्ये मेचकेऽपि चे'त्यनेकार्थः / साधनात्-क्रियासाधकप्रयोगतः / विलेपनस्य-अनुलेपनद्रव्यस्य / मुद्रया-अङ्गुल्यादिसन्निवेशविशेषेण / सितास्याः-उज्ज्वलाननाः, बद्धमुखा वा / अनुगा:-अनुसरणशीलाः / स्त्रियः-नार्यः / इव-यथा / नवापि-नवसङ्ख्याका अपि। निधयः-निधानानि / प्रभोः-चक्रिणः श्रीशान्तिनाथस्वामिनः / अन्तिके-निकटे / आसनअभूवन् / अयं भावः-चक्रवर्ती यदा विजित्य वैताढ्योत्तरस्थान म्लेच्छान् समागच्छति दक्षिणदेशं तदा तत्र गङ्गां साधयति, वशयति च नवापि निधीन् , 'नैसर्पः पाण्डुकश्चाथ, पिङ्गलः सर्वरत्नकः / महापद्मः कालमहाकालौ माणवशङ्खकौ // 1 // तेषामेवाभिधानैस्तु, तदधिष्ठायकाः सुराः / पल्योपमा युषो नागकुमारास्तन्निवासिनः // 2 // द्वादशयोजनायामा नवयोजनविस्तृताः / मञ्जूषाकृतयः प्रादुबभूवुर्निधयो नव // 3 // ' इत्युक्तस्वरूपा नवनिधयो गङ्गातटे भुवोऽन्तरे सन्ति, प्रत्येकमस्य सहस्रं सुरा अधिष्ठायकाः, एते चानुगच्छन्ति चक्रिणमिति // 79 // कचिच्च दानावसरे विमुद्रणाद, बिभेद शङ्खस्य निधेः स धैर्यकम् / मुखे तथा भीमभुवोऽधिचन्द्रता-विभावनाचापललापपाण्डुताम् // 8 // अन्वयः—च, सः, क्वचित् , दानावसरे, विमुद्रणात् , शंखस्य, निधेः, धैर्यकम् , बिभेद, तथा, अधिचन्द्रताविभावनात् भीमभुवा, मुखे, पाण्डुताम् , अपललाप, च // 80 //