________________ 126 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रेवृत्तिः–जयात-विजयाद। पञ्चम्याहेत्वर्थत्वविवक्षणाव विजयाखेतोरित्यर्थः / अयाचितैःअप्रार्थितैः / एव-विशेषणसङ्गतत्वादन्ययोगव्यवच्छेदात्मकमवधारणमेवकारार्थः, यथा 'राम एवायम्' इत्यत्र विशेषणसङ्गत्वादेवकारः इदन्त्वावच्छिन्ने विशेष्ये रामत्वान्यसम्बन्ध व्यवच्छिन्दन रामत्वं बोधयति, प्रकृतेऽपि तथैवकार उपायनत्वावच्छिन्ने विशेष्ये अयाचितत्वान्ययाचितत्वसम्बन्ध व्यवच्छिन्दन याचितत्वसम्बन्धं बोधयतीत्यगन्तव्यम् / नयाश्चित्तै:-नीतिसंवलितैः / उपायन:उपहारैः / उपायनम्-अयनस्य मार्गस्य समीपमुपायनम् , सामीप्यार्थे उपाव्ययेनाव्ययीभावः समासः / आगमनाव-आगमनं स्वीकृत्य / “गम्ययपः कर्माऽऽधारे” 2 / 2 / 74 / / इत्यनेन ‘पञ्चमी' / सः-सेनापतित्वेन प्रसिद्धो नैषधः / प्रसन्नः-दृष्टः, सन्तुष्ट इति यावत् / कृतः-विहितः / यतः-यस्मात् / महाशयाः-महान विशाल आशयोऽभिप्रायो येषान्ते महाशयाः / तु-किन्तु / एकम्-केवलम् / अयाचितव्रतम्-अयाचननियमम् / न-नहि / त्यजन्ति-विजहति // 76 // मृषा विषादाभिनयादयं वचिद्, नृपाय नूनं नमते स्वतेजसा / तदीयदुर्नीतिनिवारणेच्छया, रणेच्छया स्वक्रुधमप्युपादिशत् // 7 // अन्वयः-अयम् ; क्वचित् , मृषा, विषादाभिनयात् , स्वतेजसा, नमते, नृपाय, तदीयदुर्नीतिनिवारणेच्छया, रणेच्छया, नूनम् , स्वक्रुधम् , अपि, उपादिशत् // 77 // वृत्तिः-अयम्-असौ, सेनापतिः / क्वचित-कुत्रापि / मृषा-मिथ्या। विषादाभिनयातइष्टासिद्धिराजगुर्वाद्यपराधादिजन्योऽनुतापो विषादस्तस्य अभिनयः परत्रख्यापनम् विषादाभिनयस्तस्मात् तथा / मृषाविषादाभिनयादित्येकं वा पदं समस्तमनुसन्धेयम् / स्वतेजसा-निजप्रतापेन / नमते-प्रह्वीभवते / नृपाय-राज्ञे / तदीयदुर्नीतिनिवारणेच्छया-दुष्टा नीतिर्नयो दुर्नीतिः तस्य नृपस्येयं तदीया सा चासौ दुर्नीतिस्तदीयदुर्नीतिस्तस्या निवारणं दूरीकरणम् , तदीयदुर्नीतिनिवारणन्तस्येच्छा तदीयदुर्नीतिनिवारणेच्छा तया तथा / रणेच्छया-युद्धाभिलाषेण / नूनम्-निश्चयेन / स्वधम्निजकोपम् / अपि-सम्भावनायाम् अव्ययम् / उपादिशत्-धातूनामनेकार्थत्वाददर्शयत् // 7 // यदा प्रयाणान्तरितापि भीमजा, जुगोप निःश्वासतति वियोगजाम् / मिषेण केनाऽप्यवगम्य तजनादु, निनाय तां काप्यवलम्ब्य सन्निधिम् // 78 // अन्वयः—यदा, भीमजा, प्रयाणान्तरिता, अपि, केनापि, मिषेण, वियोगजाम् , निश्वासततिम् , जुमोप, जनात्, तत् , अवगम्य, कापि, सन्निधिम् , अवलम्ब्य, ताम् , निनाय // 78 // /