SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [ 125 वृत्तिः-तद्भावविदः-तस्य नैषधस्य भावोऽभिप्रायस्तद्भावस्तं वेत्ति जानाति इति तद्भाववित्, तदभिप्रायविज्ञातेत्यर्थः, तस्य तथा / नृपस्य-राज्ञः, श्रीमतः शान्तिनाथस्य / निदेशतःआदेशात् / विदर्भ राजम्-विदर्भस्य तदाख्यजनपदस्य राजा राट् , पार्थिव इति यावत् / विदर्भराजस्तन्तथा / षष्ठीतत्पुरुषसमासः, 'अट्' प्रत्ययश्च समासान्तोऽवगन्तव्यः / तनयाम-दुहितरम् , पुत्रीमिति यावत् / अयाचत-प्रार्थयत् / याचेर्धातोर्द्विकर्मकत्वाद्धेतोर्विदर्भराजशब्दादपि द्वितीयाविभक्तिः सञ्जातेति बोध्यम् / सेनापतिः-अनीकिनीनायकः, नैषध इति यावत् / अपि-सम्भावनायाम् / तदन्तरे-तयोः कन्यकयोरन्तरम्-मध्यम् तदन्तरम् तस्मिंस्तथा / निगृढभावाम्-निगूढोऽनभिव्यक्तो भावोऽभिप्रायः क्रिया, लीला वा यस्याः सा निगूढभावा तान्तथा / अपि-सम्भावनायाम् / ताम्कनिष्ठिकाम् , भीमदुहितरमितियावत् / रसेन-अनुरागेण / उदढवान-परिणीतवान् , उपायंस्तेति यावत् // 74 // कृपाणतः केचन केऽपि चक्रतः, परेऽपि तन्मार्गणवेधमार्गतः / त्यजन्त्यसून शर्मच मानिनोवर, भुवि स्म सैन्येऽस्य समीपमागते // 75 // अन्वयः-अस्य, सैन्ये, समीपम् , आगते, ( सति ) भुवि, केचन, मानिनः, कृपाणतः, केऽपि, चक्रतः, अपि, परे, तन्मार्गणवेधमार्गतः, असून, वरम् , शर्म, च, त्यजन्ति // 75 // , वृत्तिः-अस्य-सेनापतेः, नैषधस्येति यावत् / सैन्ये-कटके सेनायामिति यावत् / समीपम्निकटम् / आगते-आयाते (सति ) / भुवि-पृथिव्याम् / केचन-केचित् / मानिनः-मानवन्तो, मनस्विन इत्यर्थः / कृपाणत:-खड्गात् / केऽपि-केचन, मानिनो जना इत्यर्थः। चक्रत:-तदाख्यास्त्रविशेषात् / अपि-पुनः / परे-अन्ये मानिन इति शेषः / तन्मार्गणवेधमार्गत:-तस्य सेनापतेः मार्गणा बाणास्तैों वेधो वेधनं तस्य मार्गतोऽन्वेषणतः, सेनानीक्षिप्तशरवेधवर्मत इति यावत् / 'मार्गणस्तु शरेऽर्थिनि' इति 'मार्गो मृगमदे मासे, सौम्य:ऽन्वेषणे पथीति चानेकार्थः / असून्-प्राणान् / चपुनः / वरम्-श्रेष्ठम् / शर्म-सौख्यम् , निर्वृतिमिति यावत् / त्यजन्ति-विजहति, अन्तर्भावितणिगर्थत्वात्त्याजयन्तीति वाऽनुसन्धेयम् // 75 // अयाचितैरेव नयाञ्चितैर्जया-दुपायनैरागमनादुपायनम् / कृतः प्रसन्नः स यतो महाशया-स्त्यजन्ति न त्वेकमयाचितव्रतम् // 76 // अन्वयः–जयात् , अयाचितः, एव, नयाञ्चितैः, उपायन:, उपायनम् , आगमनात् , सः, . प्रसन्ना, कृता, यतः, महाशयाः, तु, एकम् , अयाचितव्रतम् , न, त्यजन्ति // 76 //
SR No.004339
Book TitleShantinath Charitram
Original Sutra AuthorAmrutsuri
AuthorAbhaydevsuri
PublisherJain Sahitya Vardhak Sabha
Publication Year1965
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy