SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वदिनोदिन्यां द्वितीयः सर्गः [ 123 रथाजपक्षिणी-तडागस्य कासारस्य भाग एकदेशस्तडागभागस्तत्र तिष्ठतीति तडागभागस्था सा चासौ रथाङ्गपक्षिणी चक्रवाकी तडागभागस्थरथाङ्गपक्षिणी एवेतिशेषः / सर्व वाक्यं सावधारणं भवतीति नियमाद्वा तडागभागस्थरथाङ्गपक्षिण्येवेत्यर्थः। अबोधि-अजानात् , अवागच्छदितिशेषः।।७१।। समुच्छलद्वाजिरजोभिरञ्जसा, नभस्तले संतमसाकुलेऽरिपोः / पुरश्चलचक्ररुचा सुहृत्कृता, निशा च शय्या च शशाङ्ककोमला // 72 // अन्वयः-समुच्छलद्वाजिरजोभिः, अञ्जसा, संतमसाकुले, नभस्तले, अरिपोः, निशा, पुरश्चलचक्ररुचा, सुहृत्- कृता, रिपोः, पुरः, चक्ररुचा,असुहृत् , निशा, कृता, च, शय्या, शशाङ्ककोमला, च // 72 // __ वृत्तिः–समुच्छलद्वाजिरजोभिः-समुच्छलन्ति सम्यगूध्वं गच्छन्ति च तानि वाजिरजासि अश्वखुरोत्थापितधूलंयः समुच्छलद्वाजिरजांसि तैस्तथा / अञ्जसा-तूर्णम् , सत्वरमिति यावत् / सन्तमसाकुले-संततं तमोऽन्धकारम् , सन्तमसम् , “समबान्धात् तमसः" 7 / 3 / 80 // इत्यनेन 'अ' प्रत्ययः समासान्तः / सन्तमसेन आकुलं व्याप्तं सन्तमसाकुलम् तस्मिँस्तथा / नमस्तले-आकाशमण्डले / अरिपो:-मित्रस्य / कृते इति शेषः / निशा-रात्रिः। पुरश्चलचक्ररुचा-पुरोऽग्रतश्चलद्विलसद्यञ्चक्रमस्त्रविशेषः पुरश्चलञ्चक्रम् तस्य रुक् कान्तिः पुरश्चलच्चक्ररुक् तया तथा / पुर इति पृथक् पदं वा / “रुक् स्त्री शोभायुतीच्छासु" इति मेदिनी / सुहृत्-प्रिया / कृता-विहिता। रिपो:-शत्रोः / पुर:-अग्रतः। चक्ररुचा-अनविशेषद्युत्या / असुहृत-प्राणहरी / निशा-रात्रिः / कृता-विहिता, इतिच्छेदाच्छेदाभ्यां द्विविधोऽर्थोऽनुसन्धेयः / च-पुनः / शय्या-आस्तरणम / शशाङ्ककोमला-शशाना हरिणानाम् अङ्कश्चिह्नं यस्यां सा शशाङ्का सा चासौ कोमला मृदुला शशाङ्ककोमला / अभवदितिशेषः / चपादपूरणे / / 72 // (पाठान्तरम्) नृपप्रतापाम्बुजबान्धवोदये, सुहृद्वधूनामिव वर्द्धने श्रियाः / प्रियाऽभवत्सा-न-सुहन्मृगीदृशा,निशा चशय्या च शशाङ्ककोमला॥७२॥ अन्वयः-नृपप्रतापाम्बुजबान्धवोदये, श्रियाः, वर्धने, हव, सुहृवधूनाम् , सा, निशा, पिया, अभवत् , सुहृन्मृगीदृशाम् , निशा, च, शशाङ्ककोमला, शय्या, च, प्रिया, न, अभवत् // 72 // वृत्तिः-नृपप्रतापाम्बुजबान्धवोदय-अम्बुनि जले जातान्यम्बुजानि कमलानि, तेषां बान्धवः प्रकाशकत्वाद्वन्धुः, प्रिय इति यावत् अम्बुजबान्धवः, प्रतापः प्रभावस्तेज इति यावत् एव अम्बुज. बान्धवः सूर्यः प्रतापाम्बुजबान्धवः, नृपस्य चक्रवर्तिनः शान्तिनाथस्य प्रतापाम्बुजबान्धवः नृपप्रतापा
SR No.004339
Book TitleShantinath Charitram
Original Sutra AuthorAmrutsuri
AuthorAbhaydevsuri
PublisherJain Sahitya Vardhak Sabha
Publication Year1965
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy