________________ 122] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे अन्वयः-अजन्यतः,चञ्चलया, भुवा, अस्य, रिपोः, मनः, अधीरताम् , दधत् , (अ), कृतम् , सः, अनाधिपत्यम् , दिशतीम् , सराजराजताम् , अमुम् , स्वतः, स्वतः, तत्याज // 7 // वृत्तिः-अजन्यतः-उपद्रवात्, 'उपलिङ्ग त्वरिष्टं स्यादुपसर्ग उपद्रवः / अजन्यमीतिरुत्पातः 2 / 40 // इत्यभि० चि० / चञ्चलया-पारिप्लवया / भुवा-पृथिव्या / अस्य-एतस्य, भगवतः शान्तिनाथस्येति यावत् / रिपोः-शत्रोः। मनः-अन्तःकरणम् / अधीरताम्-धैर्याभावम् / दधत्-धारयत् / कृतम्-विहितम् / यद्वा जन्यतः-युद्धात चञ्चलया भुवा अस्य रिपोः मनः अधीरतां दधत् अ कृतम् न कृतम् , अ अभावार्थकमव्ययम् 'अभावे त्व न नो नहि' 6 / 175 / इत्यभि०चि० / सः-प्रतिपक्षः / अनाधिपत्यम्-आधिपत्याभावम् / तत्सम्बन्धिसाम्राज्याभावमिति यावत् / दिशतीम्-प्रतिपादयन्तीम् , अभिदधतीमिति यावत् / सराजराजताम्-राज्ञां राजा राजराजः सार्वभौमस्तस्य भावो राज-. राजता ऐश्वर्यमिति यावत् / राजराजतया सहितः सराजराजता तान्तथा / अमुम्-इमाम्, भूमिमिति शेषः / स्वतः-आत्मतः / स्वतः-अनायासेन / तत्याज-परिजहार, पर्यत्याक्षीदिति यावत् // 70 / / धवे भुवो वा विधवे वधूजने, द्विषां वियोगादसुखं यदुन्मुखम् / अबोधि तज्जागरदुःखसाक्षिणी, तडागभागस्थरथाङ्गपक्षिणी // 71 // अन्वयः-द्विषाम् , विधवे, वधूजने, वियोगात् , धवे, भुवा, वियोगाद् वा, यत् , असुखम् , उन्मुखम् , तत् , जागरदुःखसाक्षिणी, तडागभागस्थरथाङ्ग-पक्षिणी, (एव) अबोधि // 71 // - वृत्तिः द्विषाम-द्विषन्त्यप्रीतयन्तीति द्विषः शत्रवः तेषान्तथा / विधवे-विगतो धवः प्रियः पतिरिति यावद्यस्य स विधवस्तस्मिंस्तथा / वधूजने-वध्वो रमण्य एव जनो वधूजनो रमणीलोकस्तस्मिँस्तथा / वियोगात्-विप्रयोगात्, विरहात्, विच्छेदादिति यावत् पत्युरिति शेषः / धवे-धवः प्रियोऽस्त्यस्य इति धवस्तस्मिँस्तथा / “अभ्रादिभ्यः” 7 / 2 / 46 // इत्यनेन मत्वर्थे 'अ' प्रत्ययः / भुवः-पृथिव्याः, भूपदस्य साम्राज्योपलकत्वात्साम्राज्यस्येति यावत् / (वियोगात्-विच्छेदात् अपहृतत्वादिति यावत् ) वा-अथवा / यत्-यादृशम् / असुखम्-नागे विरोधर्थकत्वेन सुखविरुद्धं, दुःखमित्यर्थः / तथा च "तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता / अप्राकशस्त्यं विरोधश्च,नअर्थाः षट् प्रकीर्तिताः" इति भर्तृहरिः। "असुरः" "अधर्म" इत्यादिवत् / उन्मुखम्-समुन्मीलितम् / अभवदितिशेषः / तत्-तादृशम् , दुःखमित्यर्थः / जागरदुःखसाक्षिणी-जागरस्य जागरणायाः जागराद्वा दुःखं कष्टम् , जागरदुःखम् , जागरणा सम्बन्धितत्प्रयोज्यं वेत्यर्थः / तत् साक्षात् ईक्षते तच्छीला जागरदुःखसाक्षिणी, "अजातेः शीले" 5 / 1 / 154 / इत्यनेन तच्छीले “णिन्" प्रत्ययः साक्षाज्जागरदुःखमनुभवित्रीति यावत् / तडागभागस्थ