________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [ 121 अन्वयः- यत् , स्वदुर्गभङ्ग, अवने, जने, वने, भवने, विलग्ने, भयात् , हृसत्त्रपा, रिपूणाम् , तन्वी, जडता, स्फुरन्महोऽनलस्य, नृपतेः, हृदयम् , विवेश // 68 // वृत्तिः-यत्-यस्माद्धेतोः यत्र वा / स्वदर्गभङ्ग-स्वदुर्गस्य निजप्राकारस्य भङ्गो विध्वंसः स्वदुर्गभङ्गस्तस्मिंस्तथा / अवने-सप्तम्या निमित्तत्वार्थकतया रक्षणनिमित्तमित्यर्थः। “भवनेऽवनेर्जने" इति पाठे तु पञ्चम्याः प्रयोज्यत्वार्थकतया स्वदुर्गभङ्गे हेतुत्वमनुसन्धेयम् / जने-लोके / वने-कानने / भवने-गृहे / काननात्मकगृहे इति काननस्य गृहत्वेन रूपणाद्रूपकालङ्कारः। विलग्ने-सम्बद्धे / सतीतिशेषः। भयात्-साध्वसात् / ह्रसत्त्रपा-हसन्ती ह्रासमापन्ना त्रपा लज्जा यस्याः सा तथा / रिपूणाम्शत्रुणाम् / तन्वी-तन्वीव तन्वी कृशा / जडता-जाड्यम् , विरहव्यथाविष्कारमात्रमेव जीवनावस्थानमिति यावत् / स्फुरन्महोऽनलस्य-स्फुरत् विलसत् महस्तेजो यस्य स स्फुरन्महाः, स चासावनलोऽग्निः स्फुरन्महोऽनलः तस्य तथा, देदीप्यमानत्वविशिष्टतेजस्त्ववद्वहिरूपस्येत्यर्थः / नृपतेः-राज्ञः श्रीमतः शान्तिनाथस्येति यावत् / हृदयम्-अन्तःकरणम् / विवेश-प्रविष्टा // 68 // अपहृवानस्य जनाय यनिजाः, प्रजाः कचिच्छेलवनादिषु द्विषः / मृगेक्षणानामभवचला दशा, मृगेक्षणानामिव भूमिभृद्भयात् // 69 // अन्वयः-यत् , क्वचित् , शैलवनादिषु, निजाः, प्रजाः, जनाय, अपहृवानस्य, द्विषः, मृगेक्षणानाम् , भूमिमृद्भयात् , मृगेक्षणानाम् , इव, दशा, चला, अभवत् // 69 // * वृत्तिः-यत्-यस्मात्कारणात् / क्वचित्-कुत्रापि / शैलवनादिषु–शलाः पर्वताश्च वनानि काननानि च शैलवनानि, तान्यादिः प्रधानं येषु स्थानेषु तानि शैलवनादीनि तेषु तथा / निजाःस्वीया, आत्मीया इति यावत् / प्रजाः-लोकान् , स्वाश्रितजनानिति यावत् / “लोको जनः प्रजा" 3 / 165 / / इत्यभि० चि० / जनाय-प्रतिपक्षलोकाय / अपहवानस्य-गोपायतः / द्विषः-शत्रोः। मृगेक्षणानाम्-हरिणलोचनानाम् , रमणीनामिति यावत् / भूमिभृद्भयात-भूमिभृतः पृथिवीपालकात् भयं भीः भूमिभृद्भयम् तस्मात्तथा / मृगेक्षणानाम्-हरिणनयनानाम् / इव-यथा / दशा-अवस्था / "दशावस्थादीपवोः " इति मेदिनी / चला-चञ्चला / अभवत्-अभूत् // 69 // अजन्यतश्चञ्चलया दधद् रिपो-रधीरतामस्य कृतं मनोभुवा / अनाधिपत्यं दिशतीममुं स्वतः, स्वतः स तत्याज सराज राजताम् // 7 //