________________ 120 ] श्रीननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे ___ वृत्तिः-क्रमात्-क्रमशः / अस्य-भगवतः शान्तिनाथस्य / प्रयाणे-प्रस्थाने / पुराम-नगरीणाम / “पूः स्त्री पुरी, नगर्यो वा” इत्यमरः / पुरम्सराः-पुरोऽप्रतः सरन्ति गच्छन्तीति पुरस्सराः, अग्रगामिनः, अग्रगण्या इति यावत् / स्वानुगताम्-स्वस्य आत्मनोऽनुगा अनुचराः स्वानुगास्तेषां भावः स्वानुगता तान्तथा / गताः-प्राप्ताः। सकला:-समस्ताः निखिलाः इति यावत् / अधीश्वरा:राजानः / वयस्कृतेन-वयसा तारुण्येन कृतो विहितो वयस्कृतस्तेन, वयसे-तारुण्याय कृतो-विहितो वयस्कृतः तेन तथा वा / नबोपहारेण-नवो नूतनश्चासावुपहारः उपायनम् नवोपहारस्तेन तथा / तम्-चक्रवर्तितया प्रसिद्धम् , भगवन्तं शान्तिनाथमिति यावत् / प्रसाद्य-सन्तोष्य / स्वयम्-आत्मना / उद्धलम्-उत्-उत्कृष्टं बलम् सामर्थ्यमुद्बलम् , तत्तथा / भेजुः-सिषेविरे, प्राप्तवन्त इति यावत् / किम्-उत्प्रेक्षायाम् // 66 // जयादहं पूर्विकया स्ववाहिनी, ससाहसोत्साहतयाऽवगाहिनी / त्रपाः सरिदुर्गमपि प्रतीर्य सा, स्वतः परावृत्त्य ददौ स्वदौर्जने // 67 // अन्वयः-जयात् , अहंपूर्विकया, ससाहसोत्साहतया, अवगाहिनी सा, स्ववाहिनी, सरिदुर्गम् , अपि, प्रतीर्य, त्रपाः, स्वतः, परावृत्य, स्वदौर्जने, ददौ // 67 // वृत्तिः--जयात-विजयाद्धेतोः। अहंपूर्विकया-अहं पूर्वमहं पूर्वमिति सम्भावना, अहंपूर्विका तया तथा। "अहंपूर्विका पुनः / " "अहंपूर्व महं पूर्वमिति” 2 / 332 / इत्यभि०चि०। ससाहसोत्साहतयाअविमृश्यकार्यकारित्वम् , हिताहितानेपक्षं कर्म वा साहसन्तेन सहितः ससाहसः, ससाहसः उत्साहः परपराक्रमदानादिस्मृतिजन्मा औन्नत्याख्यश्चित्तवृत्तिविशेषो यस्य स ससाहसोत्साहस्तस्य भावः ससाहसोत्साहता तया तथा / अवगाहिनी-अवगाहनशीला, विशिष्टेति यावत् / सा-प्रसिद्धा / स्ववाहिनी-निजानीकिनी, स्वसैन्यमित्यर्थः। सरिदुर्गम्-सरिन्नद्येव दुर्गं प्राकारः सरिदुर्गन्तत्तथा / अपि-सम्भावनायाम् / प्रतीर्य-तीर्खा / त्रपाः-लज्जाः / स्वतः-आत्मनः सकाशात् / परावृत्त्यअन्तर्भावितणिगर्थत्वात्परावयेत्यर्थः / स्वदौर्जने-दुर्जनानां दुष्टानां शत्रूणामिति यावत् समूहः, दौर्जनम् स्वस्य आत्मनो दौर्जनं स्वदौर्जनम् तस्मिँस्तथा / ददौ-दत्तवान् / निहितवतीति यावत् / धातूनामनेकार्थत्वादत्रत्य 'दा' धातोः स्थापनार्थकतया कथञ्चित् सप्तमी सङ्गमनीया, वस्तुतस्तु 'दा' धातुयोगे चतुर्थ्याः क्लुप्ततया, "खण्डिकोपाध्यायः शिष्याय चपेटां ददातीति पातञ्जलमहाभाष्यप्रयोगदर्शनादानाभावेऽपि चतुर्थीदर्शनेन चात्रापि चतुर्युव भवितव्यमिति सुधीभिर्विभावनीयम् // 67 / / स्वदुर्गभङ्गे भवनेऽवनेर्जने, वने विलग्ने जडता हसत्त्रपा / भयाद् रिपूणां नृपतेः स्फुरन्महो-ऽनलस्य तन्वी हृदयं विवेश यत् // 68 //