________________ -आचार्य विजयामृतसूरीश्वरकृतायां विदिनोदिन्यां द्वितीयः सर्गः [119 जन:-लोकः / अपि-सम्भावनायाम् / नानाविषयान्-विविधदेशान् ? प्रपन्नवान-समधिगतवान् / सदारतासक्तरुचिः-दारयन्ति दीर्य्यन्ते एभिरिति वा दाराः, पुंल्लिगो बहुवचनान्तश्च, एकवचनान्तोऽपि दृश्यते' यल्लप्त्यम्-धर्मप्रजासम्पन्ने दारे नान्यं कुर्वीत" इति "न्यायावाया" 5 / 3 / 134 // इति घनि साधुः तथा च दारैः-पल्या दारेण पल्या वा सहितः सदारस्तस्य भावः सदारता दारा इत्यर्थः, प्रकृतिजन्यबोधे प्रकारीभूतो भावः” इति सिद्धान्तात् 'तल्' प्रत्ययप्रकृति-सदारशब्दजन्ये दारप्रकारकाश्रयविशेष्यकबोधे दाराणां प्रकारीभूतत्वात् सदारतायां सक्ता आसक्ता वा रुचिरभिलाषो यस्य स सदारतासक्तरुचिः, "पत्नी सहचरी पाणिगृहीती गृहिणी गृहा। दाराः क्षेत्रम्" 33176 / / इत्यभि० चि० / यद्वा सदेति पृथक् रतासक्तरुचिरिति च पृथगवसेयमर्थस्तु व्यक्त एव / सः-प्रसिद्धः / नरःमानवः / सरित्तटम्-सरितो नद्याः तटस्तीरम् सरित्तटस्तन्तथा / लजितम-उल्लङ्घयितुम् पारयितुमिति यावत् / न-नहिं / शशाक-अशक्नोत् / समर्थोऽभूदिति यावत् / ( इति ) शङ्क-वितर्कयामि // 64 // उरोमुवा कुम्भयुगेन जम्भितं, मनोभुवो दुर्गधिया जिघृक्षतः / चमूपतेः सा रमतोद्भवे निशो-ऽप्यतीरभावेन मतिः सतीरते // 65 // अन्वयः-मनोभुवः, दुर्गधिया, उरोभुवा, कुम्भयुगेन, जम्भितम् , जिघृक्षतः चमूपतेः, सा, मतिः, अपि, निशः, उद्भवे अतीरभावेन सतीरते, अरमत् // 65 // ____ वृत्तिः–मनोभुवः-कामस्य / दुर्गधिया-कोट्टबुद्धया / उरोभुवा-उरसो वक्षसो भवतीति उरोभूस्तेन तथा / कुम्भयुगेन-कलशायितस्तनद्वयेन / जम्भितम्-विलसितम् / जिघृक्षतः-ग्रहीतुमिच्छतः / चम्रपतेः-सेनानायकस्य / नैषधस्येति यावत् / सा-विलक्षणत्वेन प्रसिद्धा। मति:-बुद्धिः / निश:-निशायाः / रात्रेरिति यावत् / उद्भवे-उद्गमे / अपि-सम्भावनायाम् / अतीरभावेनअपारतया / सतीरते-सत्या समीचीनया पतिव्रतयेति यावत् रतं सम्भोगः सतीरतम् तस्मिंस्तथा / "रतं सुरतगुह्ययोः” इति मेदिनी / सम्भोगसुरतशब्दौ च पर्यायतयाऽतिप्रसिद्धौ / अरमत्अक्रीडत् / / 65 / / क्रमात् प्रयाणेऽस्य पुरस्सराः पुरां, नवोपहारेण वयस्कृतेन किम् / अधीश्वराः स्वानुगतां गताः स्वयं, प्रसाद्य भेजुः सकलास्तमुद्वलम् // 66 // अन्वयः-क्रमात् , प्रयाणे, अस्य, पुराम् , पुरस्सराः, स्वानुगताम् , गताः सकलाः, अधीश्वराः, वयस्कृतेन, नवोपहारेण, तम् , प्रसाध, स्वयम् , उद्दलम् , भेजुः, किम् , // 66 //