________________ 118 ] श्रीजननैषधीयमहाकाव्ये. श्रीशान्तिनाथचरित्रेसोऽन्यं पीडयतीति किं वाच्यम् ! स्वसिद्धं कमलासनत्वं कामसन्तप्तत्वेनोत्प्रेक्षितम् , प्रतीयमानोत्प्रेझालङ्कारः, सम्भावनमथोत्प्रेक्षा प्रकृतस्य परेण यत्" इति काव्यप्रकाशकारो मम्मटः / वारिजम्कमलम् / आश्रयति-अवलम्बते / सः-तादृशः कामः / अपि-सम्भावनायाम् / साङ्गजे-अङ्गाज्जातो. ऽङ्गजः पुत्रस्तेन सहितः साङ्गजस्तस्मिंस्तथा। जिनेश्वरे-देवाधिदेवे, भगवति शान्तिनाथे इति यावत् / अनङ्गज:-न अङ्गजः पुत्रो यस्य सोऽनङ्गजः, वन्ध्यः, निष्फल इति यावत् / एव-अवधारणार्थकमव्ययम् / अभृत्-अभवत् // 62 // सदङ्गसङ्ग कुलशैलशालिनी, सितां निजाज्ञां दधतं स्वरूपतः / स्मरं तनुच्छायतया तमात्मनः, परं प्रभुं नाक्रमितुं मनोभवः // 63 // अन्वयः-मनोभवः, आत्मनः, तनुच्छायतया, कुलशैलशालिनीम् , सिताम् , निजाज्ञाम् , दधतम् , सदङ्गसङ्गम् , स्वरूपतः, स्मरम् , परम् , तम् , आक्रमितुम् , प्रभुः, न // 63 // वृत्तिः-मनोभवः-कामः / आत्मनः-स्वस्य / तनुच्छायतया-तन्वी स्वल्पा छाया शोभा यस्य स तनुच्छायःस्तस्य भावस्तनुच्छायता, तया तथा, शान्तिनाथापेक्षयाऽल्पशोभत्वेनेत्यर्थः / कुलशैलशालिनीम्-कुलमन्ववायः, वंश इति यावत्, शैलः पर्वतः इवेति कुलशैलः “उपमेयं व्याघ्राद्यैः साम्यानुक्तौ” 3 / 1 / 102 // इत्यनेनोपमितसमासः / तेन शालते शोभते तच्छीला कुलशैलशालिनी, "अजातेः शीले" 5 / 1 / 154 // इत्यनेन तच्छीले ‘णिन्' प्रत्ययः तान्तथा / सिताम्-अवदाताम् , विशुद्धा. मिति यावत् / निजाज्ञाम्-स्वीयानुशासनम् / दधतम्-धारयन्तम् / सदङ्गसङ्गम्-सन्ति समीचीनानि च तान्यङ्गान्यवयवाः सदङ्गानि तैस्तेषां वा सङ्ग आसङ्गो यस्य स सदङ्गसङ्गस्तन्तथा / स्वरूपतःस्वस्य आत्मनो रूपं सौन्दर्य्य स्वरूपम् तस्मात्तथा, आकारादितो वा / परम्-श्रेष्ठम् / स्मरम्-कन्दर्पम् / तम्-प्रसिद्धम् / भगवन्तम्-शान्तिनाथमिति यावत् / आक्रमितुम्-पराभवितुम् / प्रभुः-समर्थः न-नहि / अभवदिति शेषः // 63 // प्रसाधितेऽस्मिन् भरते महीभुजा, जनोऽपि नानाविषयान् प्रपन्नवान् / सदारतासक्तरुचिः सरित्तट, शशाक शङ्के न स लखितुं नरः // 6 // अन्वयः–महीभुजा, अस्मिन् , भरते, प्रसाधिते, जनः, अपि, नानाविषयान् , प्रपन्नवान् , सदारतासक्तरुचिः, सः, नरः, सरित्तटम् , लचितुम् , न, शशाक, (इति) शके // 6 // वृत्तिः-महीभुजा-महीं पृथिवीं भुनक्ति पालयतीति महीमुक् तेन तथा, राज्ञा भगवता शान्तिनाथेनेति यावद / अस्मिन्-एतस्मिन् / भरते-भरतक्षेत्रे / प्रसाधिते-प्रशासिते संस्कारिते वा।