________________ -नाचार्यविषयामृतसूरीभरकृताया विद्वदिनोदिन्यां द्वितीयः सर्गः [117 मनोमुवः कामस्य वश आयत्तत्वं मनोभूवशस्तत्र वर्तते तच्छीलं मनोभूवशवर्ति, कामाधीनमित्यर्थः / कृतम्-विहितम् // 60 // किमन्यदद्यापि यदस्रतापितः, शिवो वशीन्द्रः शिवया वशीकृतः। . स्मरेण लक्षीकरणेऽपि लक्षशो-प्यलक्षधी प्यत लक्ष्यतां प्रभुः // 61 // अन्वयः-अन्यत् , किम् , अद्यापि, यदस्तापिता, वशीन्द्रः, शिवः शिवया, वशीकृतः, स्मरण, लक्षशः, लक्षीकरणे, अपि, अलक्षीः, प्रभुः, लक्ष्यताम् , न, आप्यत // 61 // वृत्तिः-अन्यत-अपरम् / किम्-किमात्मकम् , वस्तु कथनीयमिति शेषः / अद्यापि-अधुनापि / यदस्त्रतापित:-यस्य कामदेवस्य अस्त्रम् आयुधम् यदस्त्रम् सम्मोहनादिबाणपञ्चकम् तेन तापितः सन्तापितः व्याकुलीकृत इति यावद तथा यदुक्तम् ‘सम्मोहनोन्मादनौ च शोषणस्तापनस्तथा / स्तम्भनश्चेतिकामस्य, शराः पञ्च प्रकीर्तिताः' / इति / वशीन्द्र:-वशीषु जितेन्द्रियेषु इन्द्रः श्रेष्ठो वशीन्द्रः / शिव:शम्भुः / महेश्वरं इति यावत् / शिवया-भवान्या सर्वमङ्गलयेति यावत् / “शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला" इत्यमरः / वशीकृत:-स्वाधीनीकृतः / स्मरेण-कन्दर्पण / लक्षशः-लक्षपदस्य बहुत्वोपलक्षकतया अनेकश इत्यर्थः / लक्ष्यीकरणे-शरव्यीकरणे / लक्ष्यपथानयने इति यावत् / अपिसम्भावनायाम् / अलक्षधी:-न लक्षं कपटं यत्र सा अलक्षा, तादृशी धीर्बुद्धीर्यस्य स तथा। "कपट कैतवं दम्भः कूटं छद्मोपधिश्छलम् / व्यपदेशो मिषं लक्षं निभं व्याजः" 3242 // इत्यभि चि० / निष्कपटबुद्धिरित्यर्थः। प्रभुः-विभुः, भगवान् शान्तिनाथ इत्यर्थः / लक्ष्यताम्-शरव्यताम् , लक्ष्यविषय• तामिति यावत् / न-नहि / आप्यत-प्राप्यत / / 61 // हरिर्यदासीजलधीहिताश्रयः, पितामहो वारिजमाश्रयत्यहो / अनङ्गजं तापमुपेत्य सोऽप्यभू-जिनेश्वरेऽनङ्गज एव साङ्गजे // 62 // अन्वयः-अहो !, यत् , अनङ्गजम् , तापम् , उपेत्य, हरिः, जलधीहिताश्रयः, आसीत् , पितामहः, पारिजम् , आश्रयति, सः, अपि, साङ्गजे, जिनेश्वरे, अनङ्गजा, एव, अभूत् // 62 // वृत्तिः-अहो-आश्चर्ये / यत-यस्मात् / अनङ्गाजम्-कामजन्यम् तत्प्रयोज्यं वा। तापमसन्तापकम् , कामपीड़ामिति यावत् / उपत्य-प्राप्य / हरिः-भगवान् विष्णुः / जलधीहिताश्रय:जलधौ सागरे ईहितो वाञ्छित आश्रय आधारो येन स तथा / आसीत्-अभवत् / पितामहाब्रह्मा, धाता, विधातेति यावत् / ( यः स्वपितामहमपि नितान्तवृद्धमतिपूज्यं शस्त्रैः पीडयतीति