________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां द्वितीयः सर्गः [115 ___ वृत्तिः-तथा-तेन प्रकारेण / अभ्यमित्र(त्र्य)भावात-आभिमुख्येनऽमित्रमलंगामी अभ्यमित्र्यस्तस्य भावोऽभ्यमित्र्यभावस्तस्मात्तथा / "अभ्यमित्रमीयश्च” 7 / 1 / 104 // इत्यनेन यः प्रत्ययः / च-पुनः / बलस्य-सैन्यस्य / अनुगाम्-अनु पश्चाद् गच्छतीत्यनुगा तान्तथा। भैमीम्-भीमदुहितरम् / अनेन-सेनापतिनामुना / घटयिष्यतः-सङ्गमयिष्यतः / कृताष्टमस्य-दिनत्रयव्यापकोपवासात्मक व्रतविशेषोऽष्टमः, (भाषायामट्ठमशब्दतया प्रसिद्धः) कृतो विहितोऽष्टमो येन स कृताष्टमस्तस्य तथा / अपि-सम्भावनायाम् / जिनस्य-अर्हतः / चक्रिण:-चक्रवर्तिणः, भगवतः शान्तिनाथस्येति यावत् / सुरसिन्धुसैकते-सुराणां देवानाम् सिन्धुर्नदी सुरसिन्धुर्मन्दाकिनी, गङ्गेति यावत् , तस्याः सैकतम् सिकता बालुकाः सन्त्यस्मिन्निति सैकतं पुलिनम् सुरसिन्धुसैकतम् तस्मिंस्तथा। पुलिनं तज्जलोज्झितम् सैकतञ्च” 4 / 144 // इत्यभि०चि० / विलम्ब:-कालाधिकयापनम् / अभूव-अभवद / / 57 / / प्रसन्नया स्वःसरिता तनुभृता, विधेरवन्ध्येच्छतया व्यलासि तत् / विमुद्रपद्माननया सविभ्रम-प्रकाशवदर्शनयाऽप्ययौद् नृपः // 50 // अन्वयः-विधेः, अवन्ध्येच्छतया, प्रसन्नया. तनुभृता, स्वःसरिता, व्यलासि, तत् , अपि, विमुद्रपमाननया, सविभ्रम-प्रकाशवदर्शनया, नृपः, अयौत् // 18 // वृत्तिः-विधेः-दैवस्य / अबन्ध्येच्छतया-अवंध्या निष्फलत्वाभाववती सफलेति यावत् / इच्छा अभिलाषो यस्य सोऽवन्ध्येच्छस्तस्य भावोऽवन्ध्येच्छता तया तथा, सम्भावितस्यासम्भावितस्य चापि कर्तुं शक्यतयेति यावत् / प्रसन्नया-प्रसादगुणवत्या, स्वच्छया, हृद्ययेति यावत् / तनूभृतातनूं शरीरं बिभर्ति धारयतीति तनूभृत् तया तथा, मूर्तिमत्येति यावत् / स्वःसरिता-स्वर्गदीर्घिकया, गङ्गयेतियावत् / ब्यलासि-विलासितम् / तत्-तथा / अपि-सम्भावनायाम् / विमुद्रपद्माननयाविमुद्रं विरहितमुद्रं पद्मम् कमलमेव आननं वदनं मुखमिति यावद्यस्याः सा विमुद्रपद्मानना तया तथा / सविभ्रमप्रकाशवदर्शनया-विभ्रमेण विलासेन सहितः सविभ्रमः स चासौ प्रकाश आलोकः सविभ्रमप्रकाशः तद्वद्दर्शने नयने यस्याः सा सविभ्रमप्रकाशवदर्शना तया तथा / "चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् / लोचनं दर्शनं दृक् च" 3 / 239 / इत्यभि०चि० / तयेति शेषः / नृपः-राजा / अयौत-अमिलत् / / 58 // मरालगत्या विलसत्तरङ्गया, न गङ्गया निर्मितचक्रसङ्गया / अभेदि तत्तादृगनङ्गमार्गणे-मनोऽस्य नारीवपुषाऽपि च प्रभोः // 59 // अन्वयः-मरालगत्या, विलसत्तरङ्गया, निर्मितचक्रसङ्गया, च, नारीवपुषा, अपि गङ्गया, ताहगनङ्गमार्गणः, अस्य प्रभोः, तत् , मनः, न, अभेदि // 59 //