________________ 114 ] श्रीजैननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे वृत्तिः-भैरवफेरवारवैः-फेरवाणां शिवानां शृगालीनामिति यावत्, आरवाः आरावाः शब्दा इति यावत, फेरवारवाः, भैरवा भयानकाश्च ते फेरवारवा भैरवफेरवारवास्तैस्तथा / "शृगालो जम्बुकः फेरुः फेरण्डः फेरवः शिवः” 4 / 355 / / इत्यभि० चि०।" शब्दे निनाननिनद".......'आरवारावसंरावविरावाः" इत्यमरः। भयातुराम-साध्वसजनिकाम् / “भयं भी तिरातङ्क आशङ्का साध्वसं दरः" 2 / 215 इत्यभि० चि० / चमूम्-सेनाम् / सृजन्-उत्पादयन् / ऋधा-क्रोधेन / विविधायुधैःविविधानि बहुप्रकाराणि च तान्यायुधानि शस्त्राणि विविधायुधानि तैस्तथा करणैः युयुत्सुः-युद्धविषयकेच्छावान् / ( अतएव ) पुरः-अग्रतः। “पुरः पुरस्तात् पुरतोऽग्रतः" 6 / 165 / / इत्यभि० चि० / विलसन्-विराजमानः सन्तिष्ठमानो वा / कोऽपि--कश्चिदनिर्दिष्टनामा / सुरः-देवः / अस्याः-स्वसे. नायाः / भैम्या वा। यशः-कीर्तिम् / संशये-सन्देहे, विरुद्धकोटिद्वयावगहिज्ञानं संशयः विजयप्रयोज्यं यशः इमां सेनामन्यदीयसेनां भैमीमन्यां वा प्राप्नुयादिति सन्देह इति यावत् / निमजयामासन्यमज्जयत् / यशः सन्देहदोलामधिरोहयामासेति भावः // 55 // तदा तदावेशविनाशनाशया, पुरन्दरः सुन्दरधीरुदायुधः / यशांसि तेनेऽस्य जयोदयादनु-स्मरँस्त्रिलोकीविजयार्जितान्यपि // 56 // अन्वयः-तदा, उदायुधः, सुन्दरधीः, पुरन्दरः, अस्य, अनुस्मरन् , तदावेशविनाशनाशया, जयोदयात् , त्रिलोकीविजयार्जितानि, अपि, यशांसि, तेने // 16 // वृत्तिः–तदा-तस्मिन् काले। उदायुधः-उत् उत्कृष्टमायुधमत्रं यस्य स तथा / सुन्दरधी:शोभनबुद्धिशाली / पुरन्दरः-इन्द्रः / अस्य-सेनापतेः शान्तिजिनं वा / अनुस्मरन्-स्मरणपथमानयन् / "स्मृत्यर्थदयेशः" 2 / 2 / 11 / / इत्यनेन वैकल्पिककर्मत्वम् / तदावेशविनाशनाशया-तस्य पूर्वोक्तविशेषणविशिष्टचमूनिर्माणकतु : सुरस्य आवेशः संरम्भः तदावेशः, तस्य विनाशनं विध्वंसनम् तदावेशविनाशनम् , तस्य आशा अभिलाषः तदावेशविनाशनाशा तया तथा / “आवेशारोपौ संरम्भे" 6 / 135 / / इत्यभि० चि० / जयोदयात-विजयोत्पत्तेः। अस्येति शेषः / त्रिलोकीविजयार्जितानित्रिलोक्यास्त्रैलोककर्मकविजयस्त्रिलोकीविजयस्तेन अर्जितानि समुपार्जितानि लब्धानीतियावत् / त्रिलोकीविजयार्जितानि / अपि-सम्भावनायाम् / यशांसि-कीर्तिः / तेने-विस्तारयामास / / 56 / / अनेन भैमी घटयिष्यतस्तथा-ऽभ्यमित्र(त्र्य)भावादनुगां बलस्य च / अभूद् विलम्बः सुरसिन्धुसैकते, कृताष्टमस्यापि जिनस्य चक्रिणः // 57 // अन्वयः- तथा, अभ्यमित्र(व्य)भावात् , च, बलस्य, अनुगाम् , भैमीम् , अनेन, घटियिष्यतः, कृताष्टमस्य, अपि, चक्रिणः, जिनस्य सुरसिन्धुसैकते, बिलम्बः, अभूत् , // 57 //